SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ २०९ ॥ Jain Education Inte , उपपन्नविगयमीसग जीवमजीवे अ जीवअज्जीवे । तहऽणंतमीसगा खलु परित्त अद्धा अ अद्धद्धा ।। २७५ ॥ व्याख्या- 'उत्पन्नविगतमिश्र के 'ति उत्पन्नविषया सत्यामृषा यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उ त्पन्ना इत्यभिदधतस्तन्यूनाधिकभावे, व्यवहारतोऽस्याः सत्यामृषात्वात् श्वस्ते शतं दास्यामि इत्यभिधाय पञ्चाशत्स्वपि दत्तेषु लोके मृषात्वादर्शनात्, अनुत्पन्नेष्वेवादत्तेष्वेव (च) मृषात्वसिद्धेः, सर्वथा क्रियाभावेन ससर्वथा व्यत्ययादित्येवं विगतादिष्वपि भावनीयमिति, तथाच विगतविषया सत्यामृषा यथैकं ग्राममधिकृत्यास्मिन्नद्य दश वृद्धा विगता इत्यभिदधतस्तन्यूनाधिकभावे, एवं मिश्रका सत्यामृषा उत्पन्नविगतोभयसत्यामृषा, यथैकं पत्तनमधिकृत्याहास्मिन्नद्य दश दारका जाता दश च वृद्धा विगता इत्यभिद्धतस्तन्यूनाधिकभावे, जीवमिश्रा - जीवविषया सत्यामृषा यथा जीवन्मृतकृमिराशौ जीवराशिरिति, अजीवमिश्रा च-अजीवविषया सत्यामृषा यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति, जीवाजीवमिश्रेति - जीवाजीवविषया सत्यामृषा यथा तस्मिन्नेव जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकभावे । 'तथानन्तमिश्रा खल्वि'ति अनन्तविषया सत्यामृषा यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायोऽयमित्यभिदधतः परीतमिश्रा- परीतविषया सत्यामृषा यथा अनन्तकायले शवति परीतम्लानमूलादौ परीतोऽयमित्यभिदधतः । अद्धामिश्रा - कालविषया सत्यामृषा यथा कश्चित् कस्मिंश्चित् प्रयोजने सहायांस्त्वरयन् परिणतप्राये वासर एव रजनी वर्तत इति ब्रवीति, अद्धद्धमिश्रा च दिवसरजन्येकदेशः अद्धद्धोच्यते, For Private & Personal Use Only ७ वाक्यशुद्ध्य० भाषास्व रूपम् २ उद्देशः ॥ २०९ ॥ ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy