________________
Jain Education Inte
तत्तत्सहकारिकारणसंनिधानेन तत्तद्रूपमभिव्यज्यत इति सत्यता । व्यवहारसत्यं नाम दह्यते गिरिर्गलति भाजनमनुदरा कन्या अलोमा एडकेति गिरिगततृणादिदाहे व्यवहारः प्रवर्तते तथोदके च गलति सति तथा संभोगजबीजप्रभवोदराभावे च सति तथा लवनयोग्यलोमाभावे सति । भावसत्यं नाम शुक्ला बलाका, सत्यपि पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वाच्छुक्लेति । योगसत्यं नाम छत्रयोगाच्छत्री दण्डयोगाद्दण्डीत्येवमादि । दशममौपम्यसत्यं च तत्रौपम्यसत्यं नाम समुद्रवत्तडाग इति गाथार्थः ॥ उक्ता सत्या, अधुना मृषामाह
कोहे माणे माया लोभे पेज्जे तहेव दोसे अ । हासभए अक्खाइय उवघाए निस्सिआ दसमा ।। २७४ ॥
व्याख्या - क्रोध इति क्रोधनिस्सृता, यथा क्रोधाभिभूतः पिता पुत्रमाह-न त्वं मम पुत्रः, यद्वा क्रोधाभिभूतो वक्ति तदाशयविपत्तितः सर्वमेवासत्यमिति, एवं माननिस्सृता मानाध्मातः क्वचित्केनचिदल्पधनोऽपि पृष्ठ आह- महाधनोऽहमिति, मायानिस्सृता मायाकारप्रभृतय आहुः- नष्टो गोलक इति, लोभनिसृता वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थमिदं क्रीतमित्यादि, प्रेमनिस्सृता अतिरक्तानां दासोऽहं तवेत्यादि, द्वेषनिस्सृता मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, हास्यनिस्सृता कान्दर्पिकानां किंचित्कस्यचित्संबन्धि गृहीत्वा पृष्ठानां न दृष्टमित्यादि, भयनिस्सृता तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, आख्यायिकानिसृता तत्प्रतिबद्धोऽसत्प्रलापः, उपघातनिस्सृता अचौरे चौर इत्यभ्याख्यानवचनमिति गाथार्थः ॥ उक्ता मृषा, साम्प्रतं सत्यामृषामाह -
For Private & Personal Use Only
ainelibrary.org