________________
७ वाक्यशुद्यः भाषास्वरूपम् २ उद्देश:
॥२०८॥
दशवैका० व्याख्या-आराध्यते-परलोकापीडया यथावदभिधीयते वस्त्वनयेत्याराधनी तु 'द्रव्य' इति द्रव्यविषया हारि-वृत्तिः भावभाषा सत्या, तुशब्दात् द्रव्यतो विराधन्यपि काचित्सत्या, परपीडासंरक्षणफलभावाराधनादिति, मृषा
विराधनी भवति, तव्यान्यथाभिधानेन तद्विराधनादिति भावः, सत्यामृषा मिश्रा, मिश्रेत्याराधनी विराधनी च, असत्यामृषा च 'प्रतिषेध' इति नाराधनी नापि विराधनी, तद्वाच्यद्रव्ये तथोभयाभावादिति, आसां |च खरूपमुदाहरणैः स्पष्टीभविष्यतीति गाथार्थः ॥ तत्र सत्यामाह___ जणवयसम्मयठवणा नामे रूवे पडुच्च सच्चे अ । ववहारभावजोगे दसमे ओवम्मसच्चे अ ।। २७३ ॥
व्याख्या-सत्यं तावद्वाक्यं दशप्रकारं भवति, जनपदसत्यादिभेदात्, तत्र जनपदसत्यं नाम नानादेशभाषारूपमप्यविप्रतिपत्त्या यदेकार्थेप्रत्यायनव्यवहारसमर्थमिति, यथोदकार्थे कोङ्कणकादिषु पयः पिञ्चमुदकं नीरमित्याद्यदृष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद्व्यवहारप्रवृत्तेः सत्यमेतदिति, एवं शेषेध्वपि भावना कार्या । संमतसत्यं नाम-कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपादीनामपि संमतमरविन्दमेव पङ्कजमिति । स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु यथा माषकोऽयं कार्षापणोऽयं शतमिदं सहस्रमिदमिति । नामसत्यं नाम कुलमवर्धयन्नपि कुलवर्द्धन इत्युच्यते धनमवर्धयन्नपि धनवर्द्धन इत्युच्यते अयक्षश्च यक्ष इति।रूपसत्यं नाम अतद्गुणस्य तथारूपधारणं रूपसत्यं, यथा प्रपञ्चयतेः प्रबजितरूपधारणमिति । प्रतीत्यसत्यं नाम यथा अनामिकाया दीर्घत्वं इखत्वं चेति, तथाहि-अस्थानन्तपरिणामस्य द्रव्यस्य
455280
HOSTERONERRORISHA
॥२०८॥
Jain Education interest
For Private Personel Use Only
sindainelibrary.org