SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ व्याख्या-वाक्यं वचनं च गीः सरखती भारती च गौर्वाक भाषा प्रज्ञापनी देशनी च वाग्योगो योगश्च, एतानि निगदसिद्धान्येवेति गाथार्थः ॥ पूर्वोद्दिष्टां द्रव्यादिभाषामाह व्वे तिविहा गहणे अ निसिरणे तह भवे पराघाए । भावे दव्वे अ सुए चरित्तमाराहणी चेव ॥ २७१ ॥ ___ व्याख्या-'द्रव्य' इति द्वारपरामर्शः, द्रव्यभाषा त्रिविधा-ग्रहणे च निसर्गे तथा भवेत्पराघाते । तत्र ग्रहणं भाषाद्रव्याणां काययोगेन यत् सा ग्रहणद्रव्यभाषा, निसर्गस्तेषामेव भाषाद्रव्याणां वाग्योगेनोत्सगक्रिया, पराघातस्तु निसृष्टभाषाद्रव्यैस्तदन्येषां तथापरिणामापादनक्रियावत्प्रेरणम्, एषा त्रिप्रकाराऽपि |क्रिया द्रव्ययोगस्य प्राधान्येन विवक्षितत्वात् द्रव्यभाषेति । 'भाव' इति द्वारपरामर्शः, भावभाषा त्रिविधैव, द्रव्ये च श्रुते चारित्र इति, द्रव्यभावभाषा श्रुतभावभाषा चारित्रभावभाषा च, तत्र द्रव्यं प्रतीत्योपयुक्तैर्या भाष्यते सा द्रव्यभावभाषा, एवं श्रुतादिष्वपि वाच्यम्, इयं त्रिप्रकारापि वऋभिप्रायात्तद्रव्यभावप्राधान्यापेक्षया भावभाषा, इयं चौघत एवाराधनी चैवेति, द्रव्याद्याराधनात्, चशब्दाद्विराधना चोभयं चानुभयं च भवति, द्रव्याद्याराधनादिश्य इति । आह-इह द्रव्यभाववाक्यखरूपमभिधातव्यं, तस्य प्रस्तुतत्वात्, तत्किमनया भाषयेति, उच्यते, वाक्यपर्यायवाद्भाषाया न दोषः, तत्वतस्तस्यैवाभिधानादिति गाथासमुदायार्थः, अवयवार्थ तु वक्ष्यति । तत्र द्रव्यभावभाषामधिकृत्याराधन्यादिभेदयोजनामाह आराहणी उ व्वे सञ्चा मोसा विराहणी होइ । सच्चामोसा मीसा असञ्चमोसा य पडिसेहा ॥ २७२ ॥ GOROSCOMCCORDSSSCREEN Jain Educaton inte For Private & Personel Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy