________________
दशवैका ० हारि-वृत्तिः
॥ २०७ ॥
Jain Education Inter
अथ वाक्यशुद्धयाख्यं सप्तममध्ययनम् ।
साम्प्रतं वाक्यशुद्ध्याख्यमध्ययनं प्रारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने गोचरप्रविष्टेन सता वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य ( आचार) इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुक्तम्, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्येतदुच्यते, उक्तं च- “सावज्जणवज्जाणं वयणाणं जो न याणइ विसेसं । वोत्तुंपि तस्स ण खमं किमंग पुण देसणं काउं ? ॥ १ ॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम् अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र वाक्यशुद्धिरिति द्विपदं नाम, तत्र वाक्यनिक्षेपाभिधानायाह
निक्खेवो अ (उ) चउक्को वक्के दव्वं तु भासदव्वाई | भावे भासासहो तस्स य एगट्ठिआ इणमो ॥ २६९ ॥
व्याख्या - निक्षेपस्तु 'चतुष्को' नामस्थापनाद्रव्यभावलक्षणो 'वाक्ये' वाक्यविषयः, तत्र नामस्थापने क्षुण्णे, 'द्रव्यं तु' द्रव्यवाक्यं पुनज्ञेशरीर भव्यशरीरव्यतिरिक्तं 'भाषाद्रव्याणि' भाषकेण गृहीतान्यनुच्चार्यमाणानि, 'भाव' इति भाववाक्यं 'भाषाशब्दः' भाषाद्रव्याणि शब्दत्वेन परिणतान्युच्चार्यमाणानीत्यर्थः । तस्य तु वाक्यस्य एकार्थिकानि 'अमूनि' वक्ष्यमाणलक्षणानीति गाथार्थः ॥
वक्कं वयणं च गिरा सरस्सई भारही अ गो वाणी । भासा पनवणी देसणी अ वयजोग जोगे अ ॥ २७० ॥
१ सावद्यानवद्ययोर्वचनयोर्यो न जानाति विशेषम् । वक्तुमपि न तस्य क्षमं किमङ्ग पुनर्देशनां कर्त्तुम् ॥ १ ॥
For Private & Personal Use Only
1-1-4-6
७ वाक्यशुद्ध्य०
भाषास्व
रूपम्
२ उद्देशः
॥ २०७ ॥
ainelibrary.org