________________
उक्तः शोभावर्जनस्थानविधिः, तदभिधानादष्टादशं पदं, तदभिधानाचोत्तरगुणाः, साम्प्रतमुक्तफलप्रदर्शनेनोपसंहरन्नाह-खवंति'त्ति सूत्रं, क्षपयन्त्यात्मानं तेन तेन चिसयोगेनानुपशान्तं शमयोजनेन जीवं, किंविशिष्टा इत्याह–अमोहदर्शिनः' अमोहं ये पश्यन्ति, यथावत्पश्यन्तीत्यर्थः, त एव विशेष्यन्ते-तपसिअनशनादिलक्षणे रताः-सक्ताः, किंविशिष्टे तपसीत्याह-संयमार्जवगुणे' संयमार्जबे गुणौ यस्य तपसस्तस्मिन् , संयमऋजुभावप्रधाने, शुद्ध इत्यर्थः, त एवंभूता 'धुन्वन्ति' कम्पयन्त्यपनयन्ति पापानि "पुराकृतानि जन्मान्तरोपात्तानि 'नवानि' प्रत्यग्राणि पापानि न 'ते' साधवः कुर्वन्ति, तथाऽप्रमत्तत्वादिति सूत्रार्थः ॥१७॥ किं च-'सदोवसंत'त्ति सूत्रं, 'सदोपशान्ताः सर्वकालमेव क्रोधरहिताः, सर्वत्राममा-ममत्वशून्याः 'अकिचना' हिरण्यादिमिथ्यात्वादिद्रव्यभावकिश्चनविनिर्मुक्ताः, खा-आत्मीया विद्या वविद्या-परलोकोपकारिणी केवलश्रुतरूपा तया खविद्यया विद्ययानुगता-युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति, त एव विशेष्यन्ते-'यशस्विनः' शुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ 'प्रसन्ने' परिणते शरत्कालादौ विमल इव चन्द्रमाः चन्द्रमा इव विमलाः, इत्येवंकल्पास्ते भावमलरहिताः सिद्धिं' निति तथा सावशेषकर्माणो 'विमानानि सौधर्मावतंसकादीनि 'उपयान्ति' सामीप्येन गच्छन्ति 'त्रातार' खपरापेक्षया साधवः, इति ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नया:, ते च पूर्ववत्, ॥६८॥ व्याख्यातं षष्ठाध्ययनम्
इति श्रीहरिभद्रसूरिविरचितायां दशवकालिकवृत्तौ षष्ठमध्ययनम् ॥६॥
Jain Education in
For Private & Personel Use Only
Mainelibrary.org