SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ दशवैका० ६ धर्मार्थ हारि-वृत्तिः कामा० २ उद्देशः ॥२०६॥ द्रव्यभावाभ्यां 'दीर्घरोमनखवतः' दीर्घरोमवतः कक्षादिषु दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति । मैथुनाद 'उपशान्तस्य' उपरतस्य, किं 'विभूषया' राढया कार्य?, न किञ्चिदिति सूत्रार्थः ॥ ६४ ॥ इत्थं प्रयोजनाभावमभिधायापायमाह-विभूस'त्ति सूत्रं, 'विभूषाप्रत्ययं विभूषानिमित्तं 'भिक्षुः' साधुः कर्म बध्नाति 'चिक्कणं' दारुणं, संसारसागरे 'घोरे' रौद्रे येन कर्मणा पतति 'दुरुत्तारे अकुशलानुबन्धतोऽत्यन्तदीर्घ इति सूत्रार्थः ॥६॥ एवं बाह्यविभूषापायमभिधाय संकल्पविभूषापायमाह-विभूस'त्ति सूत्रं, 'विभूषाप्रत्ययं विभूषानिमित्तं चेत एवं चैवं च यदि मम विभूषा संपद्यत इति, तत्प्रवृत्त्यङ्गं चित्तमित्यर्थः, 'बुद्धाः' तीर्थकरा 'मन्यन्ते' जानन्ति 'तादृशं रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासदृशं 'सावद्यबहुलं चैतदू' आर्तध्यानानुगतं चेतः, नैसदित्थंभूतं त्रातृभिः' आत्मारामैः साधुभिः 'सेवितम्' आचरितं, कुशलचित्तत्त्वात्तेषामिति सूत्रार्थः ॥६६॥ खवंति अप्पाणममोहदंसिणो, तवे रया संजमअजवे गुणे। धुणंति पावाई पुरेकडाइं, नवाई पावाइं न ते करंति ॥ ६७॥ सओवसंता अममा अकिंचणा, सविजविजाणुगया जसंसिणो । उउप्पसन्ने विमलेव चंदिमा, सिद्धिं विमाणाई उवेति ताइणो ॥ ६८॥ त्तिबेमि ॥ छटुं धम्मत्थकामज्झयणं समत्तं ॥ ६॥ ॥२०६॥ Jan Education in For Private Personal Use Only
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy