________________
न्यदोषरहितमपि 'आचारात्' श्रमणसंबन्धिनः 'परिभ्रश्यति' अपेतीति सूत्रार्थः ॥ ५० ॥ कथमित्याह – 'सीओदगं'ति सूत्रं, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते भुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति, तदा 'शीतोदक समारम्भे' सचेतनोदकेन भाजनधावनारम्भे तथा 'मात्रकधावनोज्झने' कुण्डमोदादिषु क्षालनजलत्यागे यानि ' क्षिप्यन्ते' हिंस्यन्ते 'भूतानि' अष्कायादीनि सोऽत्र गृहिभाजन भोजने 'दृष्ट' उपलब्ध: केवलज्ञानभास्वता असंयमः तस्य भोक्तुरिति सूत्रार्थः ॥ ५१ ॥ किंच - 'पच्छाकम्मं 'ति सूत्रं, पश्चात्कर्म पुर:कर्म स्यात् तत्र कदाचिद्भवेद्दृहि भाजन भोजने, पश्चात्पुरः कर्मभावस्तूक्तवदित्येके, अन्ये तु भुञ्जन्तु तावत्साधवो वयं पश्चाद्भोक्ष्याम इति पश्चात्कर्म व्यत्ययेन तु पुरः कर्म व्याचक्षते, एतच्च न कल्पते धर्मचारिणां यतचैवमतः 'एतदर्थ' पश्चात्कर्मादिपरिहारार्थं न भुञ्जते निर्ग्रन्थाः, केत्याह- 'गृहिभाजने' अनन्तरोदित इति सूत्रार्थः ॥ ५२ ॥
Jain Education International
आसंदीपलिअंकेसु, मंचमासालएसु वा । अणायरिअमज्जाणं, आसइत्तु सइन्तु वा ॥ ५३ ॥ नासंदीपलिअंकेसु, न निसिज्जा न पीढए । निग्गंथाऽपडिलेहाए, बुद्धबुत्तमहिट्टगा ॥ ५४ ॥ गंभीरविजया एए, पाणा दुप्पडिलेहगा । आसंदी पलिअंको अ, अमटुं विवजि ॥ ५५ ॥
For Private & Personal Use Only
www.jainelibrary.org