________________
दशवैका ० हारि-वृत्तिः
॥ २०३ ॥
Jain Education I
यति - 'पिंड 'न्ति सूत्रं, पिण्डं शय्यां च वस्त्रं च चतुर्थ पात्रमेव च, एतत्स्वरूपं प्रकटार्थम्, अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात् 'कल्पिकं' यथोचितमिति सूत्रार्थः ॥ ४७ ॥ अकल्पिके दोषमाह - 'जे'त्ति सूत्रं, ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणो 'नियागं'ति नित्यमामन्त्रितं पिण्डं 'ममायन्ती'ति परिगृह्णन्ति, तथा 'क्रीतमौदेशिकाहृतम्' एतानि यथा क्षुल्लकाचारकथायां 'वध' सस्थावरादिघातं 'ते' द्रव्यसाध्वादयः 'अनुजानन्ति' दातृप्रवृत्त्यनुमोदनेन इत्युक्तं च 'महर्षिणा' वर्धमानेनेति सूत्रार्थः ॥ ४८ ॥ यस्मादेवं 'तम्ह'त्ति सूत्रं, तस्मादर्शनपानादि चतुर्विधमपि यथोदितं क्रीतमौदेशिकमाहृतं वर्जयन्ति 'स्थितात्मानो' महासत्त्वा 'निग्रन्थाः' साधवो 'धर्मजीविनः' संयमैकजीविन इति सूत्रार्थः ॥ ४९ ॥
कंसेसु कंसपाए, कुंडमोसु वा पुणो । भुंजंतो असणपाणाई, आयारा परिभस्सइ ॥५०॥ सीओदगसमारम्भे, मत्तधोअणछड्डुणे । जाई छनंति (छिप्पंति) भूआई, दिट्ठो तत्थ असंजमो ॥ ५१ ॥ पच्छाकम्मं पुरेकम्मं सिआ तत्थ न कप्पइ । एअमटुं न भुंजंति, निग्गंथा गिहिभायणे ॥ ५२ ॥ उक्तोऽकल्पस्तदभिधानात्रयोदशस्थानविधिः, इदानीं चतुर्दशस्थानविधिमाह - 'कंसेसु'त्ति सूत्रं, 'कंसेषु' करोटकादिषु 'कंसपात्रेषु' तिलकादिषु 'कुण्डमोदेषु' हस्तिपादाकारेषु मृन्मयादिषु भुञ्जानोऽशनपानादि तद
For Private & Personal Use Only
६ धर्मार्थ
कामा०
२ उद्देशः
॥ २०३ ॥
jainelibrary.org