________________
5
वा' अलाबुकादि 'कम्बलं' वर्षाकल्पादि, 'पादपुंछन' रजोहरणं, तदपि 'संयमलजार्थमिति संयमार्थ पात्रादि, तद्व्यतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात्, लज्जार्थ वस्त्रं, तव्यतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लज्जतोपपत्तेः, अथवा संयम एव लज्जा तदर्थं सर्वमेतद्वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन 'परिहरन्ति च परिभुञ्जते चमू रहिता इति सूत्रार्थः॥१९॥ यतश्चैवमतः-'न सो'त्ति सूत्रं, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो, बन्धहेतुत्वाभावात्, केन? 'ज्ञातपुत्रेण' ज्ञात-उदारक्षत्रियः सिद्धार्थः तत्पुत्रेण वर्धमानेन 'जात्रा' खपरपरित्राणसमर्थेन, अपि तु 'मूर्छा असत्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो, बन्धहेतुत्वादू, अर्थतस्तीर्थकरेण, ततोऽवधार्य 'इति' एवमुक्तो 'महर्षिणा' गणधरेण, सूत्रे सेजंभव आहेति सूत्रार्थः॥२०॥ आह-वस्त्राद्यभावभाविन्यपि मूर्छा कथं वस्त्रादिभावे साधूनां न भविष्यति?, उच्यते, सम्यग्बोधेन तबीजभूताबोधोपघातादु, आह च-सव्वत्यत्ति सूत्रं, 'सवत्र' उचिते क्षेत्रे काले च 'उपधिना 'आगमोक्तेन वस्त्रादिना सहापि 'बुद्धा' यथावद्विदितवस्तुतत्त्वाः साधवः |'संरक्षणपरिग्रह' इति संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः, किं चानेन?, ते हि भगवन्तः 'अप्यात्मनोऽपि देह' इत्यात्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगतिं न कुर्वन्ति 'ममत्वम्' आत्मीयाभिधानं, वस्तुतत्त्वावबोधात्, तिष्ठतु तावदन्यत्, ततश्च देहवदपरिग्रह एव तदिति सूत्रार्थः ॥२१॥
153
दश०३४
Jain Education Inter
For Private 8 Personal Use Only
inelibrary.org