________________
दशवैका हारि-वृत्तिः
६ धर्मार्थ
७२४२०५२
-5
कामा० २ उद्देशः
॥१९५॥
लक्षणः 'इति' एवं ब्रुवते 'अविधिज्ञा' न्यायमार्गाप्रवेदिनः, अत्रोत्तरं-'स परलोकादिः अस्त्येव 'अवितथा' सत्यो 'जिनमते वीतरागवचने, प्रवरः पूर्वापराविरोधेन, नान्यत्रैकान्तनित्यादौ, हिंसादिविरोधादिति गाथार्थः॥ ४ ॥ व्याख्याता काचित्सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरावसरः, अस्य चायमभिसंबन्धः-इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरकथनोपन्यासः कृतः, साम्प्रतमस्यैवार्थतो गुरुतामाह-'णण्णत्यत्ति सूत्रं न 'अन्यत्र' कपिलादिमते 'ईदृशम्' उक्तमाचारगोचरं वस्तु यत् 'लोके' प्राणिलोके 'परमदुश्चरम्' अत्यन्तदुकरमित्यर्थः, ईदृशं च 'विपुलस्थानभाजिन' विपुलस्थानं-विपुलमोक्षहेतुत्वात् संयमस्थानं तद्भजते-सेवते तच्छीलश्च यस्तस्य, न भूतं न भविष्यति अन्यत्र जिनमतादिति सूत्रार्थः ॥५॥ ___ सखुड्डगविअत्ताणं, वाहिआणं च जे गुणा । अखंडफुडिआ कायव्वा, तं सुणेह जहा
तहा ॥ ६॥ दस अट्ठ य ठाणाई, जाइं बालोऽवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गं
थत्ताउ भस्सइ ॥७॥ एतदेव संभावयन्नाह-सखुडु'त्ति सूत्रं, सह क्षुल्लकैः-द्रव्यभावबालैये वर्तन्ते ते व्यक्ता-द्रव्यभाववृद्धास्तेषां सक्षुल्लकव्यक्तानां, सबालवृद्धानामित्यर्थः, व्याधिमतां चशब्दाव्याधिमतां च, सरुजानां नीरुजानां चेति भावः, ये 'गुणा' वक्ष्यमाणलक्षणास्तेऽखण्डास्फुटिताः कर्तव्याः, अखण्डा देशविराधनापरि
CAUSSOOSTEOCOct
॥१९५॥
Jain Education Intematon
For Private & Personal Use Only
www.jainelibrary.org