SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Jain Education Int त्यागेन अस्फुटिताः सर्वविराधनापरित्यागेन, तत् शृणुत यथा कर्तव्यास्तथेति सूत्रार्थः ॥ ६ ॥ ते चागुणपरिहारेणाखण्डास्फुटिता भवन्तीति अगुणास्तावदुच्यन्ते - 'दस' त्ति सूत्रं, दशाष्टौ च 'स्थानानि' असंयमस्थानानि वक्ष्यमाणलक्षणानि 'यानि' आश्रित्य 'बालः' अज्ञः 'अपराध्यति' तत्सेवनयाऽपराधमाप्नोति, कथमपराध्यतीत्याह- तत्रान्यतरे स्थाने वर्तमानः प्रमादेन 'निर्ग्रन्थत्वात्' निर्ग्रन्थभावाद् 'भ्रश्यति' निश्चयनयेनापैति बाल इति सूत्रार्थः ॥ अमुमेवार्थ सूत्रस्पर्शनियुक्त्या स्पष्टयति अट्ठारस ठाणाई आयारकहाऍ जाई भणियाई । तेसिं अन्नतरागं सेवंतु न होइ सो समणो ॥ २६७ ॥ व्याख्या- अष्टादशस्थानान्याचारकथायां प्रस्तुतायां यानि भणितानि तीर्थकरैः तेषामन्यतरस्थानं सेव - मानो न भवत्यसौ श्रमण आसेवक इति गाथार्थः ॥ कानि पुनस्तानि स्थानानीत्याह नियुक्तिकारः वयछकं कायछकं, अकप्पो गिहिभायणं । पलियंकनिसेज्जा य, सिणाणं सोहवज्जणं ।। २६८ ।। व्याख्या- 'व्रतषटुं प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड् व्रतानि कायष्टुं - पृथिव्यादयः षड् जीवनिकाया: 'अकल्पः' शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः 'गृहिभाजनं' गृहस्थसंबन्धि कांस्य भाजनादि प्रतीतं 'पर्यङ्कः' शयनविशेषः प्रतीतः । 'निषद्या च' गृहे एकानेकरूपा 'लानं' देशसर्वभेदभिन्नं 'शोभावर्जनं' विभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसंबध्यते, शोभावर्जनं स्नानवर्जनमित्यादीति गाथार्थः ॥ ७ ॥ For Private & Personal Use Only Jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy