SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Jain Education In नेषु च यथोक्तम्- " अर्थस्य मूलं निकृतिः क्षमा च, कामस्य वित्तं च वपुर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियाश्च ॥ १ ॥ इत्यादि” एते च परस्परविरोधिनोऽपि सन्तो जिनवचनमवतीर्णाः ततः कुशलाशययोगतो व्यवहारेण धर्मादितत्त्वखरूपतो वा निश्चयेन 'असपत्ना:' परस्पराविरोधिनो भवन्ति | ज्ञातव्या इति गाथार्थः ॥ तत्र व्यवहारेणाविरोधमाह - जिणवयणंमि परिणए अवत्थविहिआणुठाणओ धम्मो । सच्छासयप्पयोगा अत्थो वीसंभओ कामो ॥ २६४ ॥ व्याख्या - जिनवचने यथावत्परिणते सति अवस्थोचित विहितानुष्ठानात् स्वयोग्यतामपेक्ष्य दर्शनादिश्रावकप्रतिमाङ्गीकरणे निरतिचारपालनाद्भवति धर्मः, स्वच्छाशयप्रयोगाद्विशिष्टलोकतः पुण्यबलाच्चार्थः, विश्र म्भत उचितकलत्राङ्गीकरणतापेक्षो विश्रम्भेण काम इति गाथार्थः । अधुना निश्चयेनाविरोधमाह - धम्मस्स फलं मोक्खो सासयमडलं सिवं अणावाहं । तमभिप्पेया साहू तम्हा धम्मत्थकाम त्ति ।। २६५ ॥ व्याख्या - धर्मस्य निरतिचारस्य फलं 'मोक्षो' निर्वाणं, किंविशिष्टमित्याह - 'शाश्वतं ' नित्यम् 'अतुलम्' अनन्यतुलं 'शिव' पवित्रम् 'अनाबाधं' बाधावर्जितमेतदेवार्थः 'तं' धर्मार्थ मोक्षमभिप्रेताः - कामयन्तः साधवो यस्मात्तस्माद्धर्मार्थकामा इति गाथार्थः ॥ एतदेव दृढयन्नाह - परलोगु मुत्तिमग्गो नत्थि हु मोक्खो त्ति बिंति अविहिन्नू । सो अत्थि अवितहो जिणमयंमि पवरो न अन्नत्थ ॥ २६६ ॥ व्याख्या - 'परलोको' जन्मान्तरलक्षणो 'मुक्तिमार्गो' ज्ञानदर्शनचारित्राणि नास्त्येव 'मोक्ष' सर्वकर्मक्षय For Private & Personal Use Only Cainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy