________________
दश० ३३
Jain Education Internation
चवीसा चवीसा तिगदुगदसहा अणेगविह एव । सव्वेसिंपि इमेसि विभागमहयं पवक्खामि ॥ २५१ ॥
व्याख्या - चतुर्विंशतिः चतुर्विंशतीति चतुर्विंशतिविधो धान्यार्थी रत्नार्थश्च 'त्रिद्विदशधे 'ति त्रिविधः स्थावरार्थः द्विविधो द्विपदार्थः दशविधञ्चतुष्पदार्थ, 'अनेकविध एवेत्यनेकविधः कुप्यार्थः सर्वेषामप्यमीषां चतुर्वि शत्यादिसंख्याभिहितानां धान्यादीनां 'विभाग' विशेषम् 'अर्थ' अनन्तरं संप्रवक्ष्यामीत्यर्थः ॥ धन्नाई चउव्वीसं जव१गोहुम २ सालि ३ वीहि ४ सट्ठीआ५ । कोद्दव ६ अणुया७ कंगूट रालग९ तिल १० मुग्ग११ मासा १२ य ॥ २५२ ॥ अयसि १३ हरिमन्थ १४ तिउडग १५ निप्फाव १६ सिलिंद १७रायमासा१८अ । इक्खू १९ मसूर २० तुवरी २१ कुलत्थ २२ तह २३ धन्नगकलाया २४ ॥
व्याख्या - धान्यानि चतुर्विंशतिः, यवगोधूमशालिनीहिषष्टिकाः कोद्रवाणुकाः कङ्गुरालगतिलमुद्गमाषाश्च अतसीहरिमन्थत्रिपुटकनिष्पावसिलिन्द्रराजमाषाश्च इक्षुमसूरतुवर्यः कुलत्था धान्यककलायाश्चेति, एतानि प्रायो लौकिकसिद्धान्येव, नवरं षष्टिकाः-शालिभेदाः कङ्गः-उदकङ्गुः तद्भेदो रालकः हरिमन्थाः - कृष्णचणकाः निष्पावा- वल्ला: राजमाषाः - चवलकाः शिलिन्दा - मकुष्ठाः धान्यकं -कुस्तुम्भरी कलायका - वृत्तचणका इति गाथाद्वयार्थः ॥ उक्तो धान्यविभागः, अधुना रत्नविभागमाह
रयणाणि चव्वीसं सुवण्णतउतंबरययलोहाई । सीसगहिरण्णपासाणवइर मणिमोत्तिअपवालं ॥ २५४ ॥ संखो तिणिसागुरुचंदणाणि वत्थामिलाणि कट्ठाणि । तह चम्मदंतवाला गंधा दुव्वोसहाई च ।। २५५ ॥ व्याख्या - रत्नानि चतुर्विंशतिः, सुवर्णत्रपुताम्ररजत लोहानि सीसकहिरण्यपाषाणवज्रमणिमौक्तिकप्रवा
For Private & Personal Use Only
ninelibrary.org