SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ १९२ ॥ Jain Education Int शिक्षापदानि चत्वारि - सामायिकादीनि, गृहिधर्मी द्वादशविधस्तु एष एवाणुव्रतादिः । अणुव्रतादिस्वरूपं चावश्यके चर्चितत्वान्नोक्तमिति गाथार्थः ॥ साधुधर्ममाह - खंती अ मद्दवऽज्जव मुत्ती तवसंजमे अ बोद्धव्वे । सच्चं सोचं आकिंचणं च बंभं च जइधम्मो ॥ २४८ ॥ व्याख्या - क्षान्तिश्च मार्दवम् आर्जवं मुक्तिः तपःसंयमौ च बोद्धव्यौ सत्यं शौचमाकिञ्चन्यं ब्रह्मचर्यं च य|तिधर्म इति गाथाक्षरार्थः । भावार्थः पुनर्यथा प्रथमाध्ययने ॥ धम्मो एसुइट्ठो अत्थस्स चउव्विहो उ निक्खेवो । ओहेंण छव्विहऽत्थो चउसट्ठिविहो विभागेणं ॥ २४९ ॥ व्याख्या-धर्म एष 'उपदिष्टो' व्याख्यातः, अधुना त्वर्थावसरः, तत्रेदमाह-अर्थस्य चतुर्विधस्तु निक्षेपो-नामादिभेदात्, तत्र 'ओघेन' सामान्यतः षडिधोऽर्थ आगमनोआगमव्यतिरिक्तो द्रव्यार्थः, चतुःषष्टिविधो 'विभागेन' विशेषेणेति गाथासमुदायार्थः ॥ अवयवार्थ त्वाह धन्नाणि रयण थावर दुपयचउप्पय तहेव कुविअं च । ओहेण छव्विहत्थो एसो धीरेहिं पन्नत्तो ॥ २५० ॥ व्याख्या- 'धान्यानि' यवादीनि, रत्नं सुवर्ण स्थावरं - भूमिगृहादि द्विपदं - गन्र्यादि चतुष्पदं - गवादि तथैव कुप्यं च ताम्रकलशाद्यनेकविधम् । ओघेन षड्विधोऽर्थ 'एषः' अनन्तरोदितः 'धीरैः' तीर्थकरगणधरैः 'प्रज्ञप्तः' प्ररूपित इति गाथार्थः । एनमेव विभागतोऽभिधित्सुराह १ चरित्तधम्मो समणधम्मो इत्यत्र चूर्णिकृद्भिर्विवृत्योक्तेः संलीनतासंयमादी वा व्याख्यानादेवमाहुः. For Private & Personal Use Only ६ महाचारकथाध्य० २ उद्देशः ॥ १९२ ॥ ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy