________________
24-25**************
'तेभ्यो' राजादिभ्यः 'असौ गणी 'निभृतः' असंभ्रान्त उचितधर्मकायस्थित्या, दान्त इन्द्रियनोइन्द्रियाभ्यां, 'सर्वभूतसुखावहः' सर्वप्राणिहित इत्यर्थः, 'शिक्षया' ग्रहणासेवनरूपया 'सुसमायुक्तः' सुष्टु-एकीभावेन युक्तः 'आख्याति कथयति 'विचक्षणः पण्डित इति सूत्रार्थः॥३॥ 'हदित्ति सूत्रं, हन्दीत्युपप्रदर्शने, तमेनं 'धमार्थकामाना मिति धर्म:-चारित्रधर्मादिस्तस्यार्थः-प्रयोजनं मोक्षस्तं कामयन्ति-इच्छन्तीति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामा-मुमुक्षवस्तेषां 'निर्ग्रन्थानां' बाह्याभ्यन्तरग्रन्थरहितानां शृणुत मम समीपाद 'आचारगोचरं' क्रियाकलापं 'भीम' कर्मशवपेक्षया रौद्रं 'सकलं' संपूर्ण 'दुरधिष्ठं क्षुद्रसत्त्वैर्दुराश्रयमिति सूत्रार्थः। धर्मार्थकामानामित्युक्तं, तदेतत्सूत्रस्पर्शनियुक्त्या निरूपयति-तत्र धर्मनिक्षेपो यथा प्रथमाध्ययने, नवरं लोकोत्तरमाह
धम्मो बावीसविहो अगारधम्मोऽणगारधम्मो अ । पढमो अ बारसविहो दसहा पुण बीयओ होइ ॥ २४६ ॥ व्याख्या-धर्मो 'द्वाविंशतिविधः' सामान्येन द्वाविंशतिप्रकारः, 'अगारधर्मो' गृहस्थधर्मः 'अनगारधर्मश्च'। साधुधः, 'प्रथमच' अगारधर्मो द्वादशविधः, दशधा पुनः 'द्वितीया' अनगारधर्मों भवतीति गाथासमासार्थः॥ व्यासार्थ वाह. पंच य अणुव्वयाई गुणव्वयाइं च होंति तिन्नेव । सिक्खावयाई चउरो गिहिधम्मो बारसविहो अ ॥ २४७ ॥ व्याख्या-पश्चाणुव्रतानि-स्थूलप्राणातिपातनिवृत्त्यादीनि, गुणव्रतानि च भवन्ति त्रीण्येव-दिग्वतादीनि |
Jan Education
For Private
Personel Use Only
Collainelibrary.org