________________
दशवैका ० हारि-वृत्तिः
॥ १९३ ॥
Jain Education Inter
लानि । शङ्खतिनिशागरुचन्दनानि वस्त्रामिलानि काष्ठानि तथा चर्मदन्तवाला गन्धा द्रव्यौषधानि च । एतान्यपि प्रायो लौकिकसिद्धान्येव नवरं रजतं रूप्यम् हिरण्यं रूपकादि पाषाणा-विजातीयरत्नानि मणयोजात्यानि । तिनिशो-वृक्षविशेषः अमिलानि - ऊर्णावस्त्राणि काष्ठानि - श्रीपर्ण्यादिफलकादीनि चर्माणि सिंहादीनां दन्ता गजादीनां वालाः चमर्यादीनां द्रव्यौषधानि - पिप्पल्यादीनीति गाथाद्वयार्थः ॥ उक्तो रत्नविभागः, स्थावरादिविभागमाह
भूमी घरा य तरुगण तिविहं पुण थावरं मुणेअव्वं । चकारवद्धमाणुस दुविहं पुण होइ दुपयं तु ।। २५६ ॥
व्याख्या - भूमिगृहाणि तरुगणाश्च चशब्दस्य व्यवहित उपन्यासः, त्रिविधं पुनरोघतः स्थावरं मन्तव्यं, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि ?, खगतान् भेदान्, तद्यथा - भूमिः - क्षेत्रं, तच त्रिधा - सेतु केतु सेतुकेतु च, गृहाणि प्रासादाः, तेऽपि त्रिविधाः -खातोत्छ्रितोभयरूपाः, तरुगणा नालिकेर्याधारामा इति, 'चक्रारबद्धमानुष' मिति चक्रारबद्धं - गन्र्यादि मानुषं - दासादि, एवं द्विपदं पुनर्भवति द्विविधमिति गाथार्थः ॥ उक्तं स्थावरादि, चतुष्पदमाह -
गावी महिसी उट्ठा अयएलगआस आसतरगा अ । घोडग गद्दह हत्थी चउप्पयं होइ दसहा उ ।। २५७ ॥
व्याख्या - गौर्महिषी उष्ट्री अजा एडका अश्वा अश्वतराश्च घोटका गर्दभा हस्तिनञ्चतुष्पदं भवति दशधा
For Private & Personal Use Only
६ धर्मार्थ
कामा०
२ उद्देशः
॥ १९३ ॥
www.jainelibrary.org