________________
अथ महाचारकथाख्यं षष्ठमध्ययनम्। अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने साधोभिक्षाविशोधिरुक्ता, इह तु गोचरप्रविष्टेन सता खाचारं पृष्टेन तद्विदापि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुच्यते, उक्तं च-"गोअरग्गपविट्ठो उ, न निसीएज कत्थइ । कहं च न पबंधेजा, चिट्ठित्ता ण व संजए॥१॥” इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च महाचारकथेति नाम, एतच तत्त्वतः प्रानिरूपितमेवेत्यतिदिशन्नाह
जो पुर्दिव उद्दिट्ठो आयारो सो अहीणमइरित्तो । सच्चेव य होइ कहा आयारकहाए महईए ॥ २४५ ॥ व्याख्या-यः 'पूर्व क्षुल्लकाचारकथायां निर्दिष्ट' उक्तः 'आचारों ज्ञानाचारादिः असावहीनातिरिक्तो वक्तव्यः, सैव च भवति 'कथा' आक्षेपण्यादिलक्षणा वक्तव्या, चशब्दात्तदेव क्षुल्लकप्रतिपक्षोक्तं महद्वक्तव्यम् , आचारकथायां महत्यां प्रस्तुतायामिति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेप इत्यादिचर्चः पूर्ववत्तावद्यावसूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
१ गोचरामप्रविष्टस्तु न निषीदेत् कुत्रचित् । कथां च न प्रबन्धयेत् स्थित्वा च संयतः ॥१॥
Jain Education Intel
For Private
Personal Use Only
nelibrary.org