________________
सूत्रं, तथैव 'फलमन्थून्' बदरचूर्णान् 'बीजमन्थून यवादिचूर्णान् ज्ञात्वा प्रवचनतो बिभीतक' बिभीतकफलं प्रियालं वा' प्रियालफलं च 'आमम्' अपरिणतं परिवर्जयेदिति सूत्रार्थः ॥२४॥
समुआणं चरे भिक्खू, कुलमुच्चावयं सया। नीयं कुलमइक्कम्म, ऊसढं नाभिधारए ॥ २५ ॥ अदीणो वित्तिमेसिजा, न विसीइज पंडिए । अमुच्छिओ भोअणमि, मायण्णे एसणारए ॥ २६ ॥ बहुं परघरे अत्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज परो न वा ॥ २७॥ सयणासणवत्थं वा, भत्तं पाणं व संजए ।
अदितस्स न कपिज्जा, पञ्चक्खेवि अदीसओ॥२८॥ विधिमाह-'समुआणं ति सूत्रं, समुदानं भावभक्ष्यमाश्रित्य चरेद्भिक्षुः, केत्याह-कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवापेक्षया प्रधानमप्रधानं च, यथापरिपाट्येव चरेत् 'सदा' सर्वकालं, नीचं कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थम् 'उत्सृतम्' ऋद्धिमत्कुलं 'नाभिधारयेत्' न यायात्, अभिष्वङ्गलोकलाघवा- दिप्रसङ्गादिति सूत्रार्थः ॥२५॥ किंच-अदीण'त्ति सूत्रं, 'अदीनों द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः 'वृत्ति' वर्त्तनम् 'एषयेद्' गवेषयेत्, 'न विषीदेद' अलाभे सति विषादं न कुर्यात् 'पण्डितः साधुः 'अमूञ्छितः'
+%AANAA
GRAA5%
en Education
For Private
Personal Use Only
Chainelibrary.org