SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Jain Education In अपितु तप इत्यधिसहेत, अनशनन्यूनोदरतालक्षणं तपो भविष्यतीति सम्यग्विचिन्तयेदिति सूत्रार्थः ॥ ६ ॥ उक्ता कालयतना, अधुना क्षेत्रयतनामाह - 'तहेव'त्ति, तथैव 'उच्चावचाः' शोभनाशोभनभेदेन नानाप्रकाराः प्राणिनो भक्तार्थ समागता बलिप्राभृतिकादिष्वागता भवन्ति, 'तदृजुक' तेषामभिमुखं न गच्छेत्, तत्संत्रासनेनान्तरायाधिकरणादिदोषात्, किंतु यतमेव पराक्रामेत्, तदुद्वेगमनुत्पादयन्निति सूत्रार्थः ॥७॥ किं च 'गोअरगत्ति सूत्रं, गोचराग्रप्रविष्टस्तु भिक्षार्थी प्रविष्ट इत्यर्थः 'न निषीदेत्' नोपविशेत् 'कचिद्' गृहदेवकुलादौ, संयमोपघातादिप्रसङ्गात्, 'कथां च' धर्मकथादिरूपां 'न प्रबनीयात्' प्रबन्धेन न कुर्यात्, अनेनैकव्याकरणैकज्ञातानुज्ञामाह, अत एवाह-स्थित्वा कालपरिग्रहेण संयत इति, अनेषणाद्वेषादिदोषप्रसंगादिति सूत्रार्थः ॥८॥ उक्ता क्षेत्रयतना, द्रव्ययतनामाह - 'अग्गलं 'ति सूत्रं, 'अर्गलं' गोपुरकपाटा दिसंबन्धिनं 'परिघं' नगरद्वारादिसंबन्धिनं 'द्वारं' शाखामयं 'कपार्ट' द्वारयन्त्रं वाऽपि संयतः अवलम्ब्य न तिष्ठेत्, लाघवविराधनादोषात्, 'गोचराग्रगतो' भिक्षाप्रविष्टः मुनिः संयत इति पर्यायौ तदुपदेशाधिकाराददुष्टावेवेति सूत्रार्थः ॥ ९ ॥ उक्ता द्रव्ययतना, भावयतनामाह - 'समणं' ति सूत्रं, 'श्रमणं' निर्ग्रन्थादिरूपं, 'ब्राह्मणं' धिग्वर्ण वापि 'कृपणं वा' पिण्डोलकं 'वनीपक' पञ्चानां वनीपका) नामप्यन्यतमम् 'उपसंक्रामन्तं' सामीप्येन गच्छन्तं गतं वा भ क्तार्थ पानार्थ वा 'संयतः साधुरिति सूत्रार्थः ॥ १० ॥ 'त'मिति सूत्रं, 'तं' श्रमणादिम् 'अतिक्रम्य' उल्लङ्घ्य न प्रविशेत्, दीयमाने च समुदाने तेभ्यो न तिष्ठेच्चक्षुर्गोचरे । कस्तत्र विधिरित्याह-एकान्तमवक्रम्य तत्र ति For Private & Personal Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy