SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ १७९ ॥ मिति गम्यते, तत्र बहिरेवोन्दुकं स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेदिति सूत्रार्थः ॥ ८७ ॥ तत ऊर्ध्वं 'विणएण'त्ति सूत्रं, विशोध्य पिण्डं बहि: 'विनयेन' नैषेधिकीनमः क्षमाश्रमणेभ्योऽञ्जलिकरणलक्षणेन प्रविश्य, वसतिमिति गम्यते, सकाशे गुरोः मुनिः, गुरुसमीप इत्यर्थः, 'ईर्यापथिकामादाय' "इच्छामि | पडिक्कमिडं इरियावहियाए" इत्यादि पठित्वा सूत्रं, आगतश्च गुरुसमीपं प्रतिक्रामेत् कायोत्सर्ग कुर्यादिति | सूत्रार्थः ॥ ८८ ॥ 'आभोइत्ताण'त्ति सूत्रं तत्र कायोत्सर्गे 'आभोगयित्वा' ज्ञात्वा निःशेषमतिचारं 'यथाक्रमं ' परिपाठ्या, केत्याह- 'गमनागमनयोश्चैव' गमने गच्छत आगमन आगच्छतो योऽतिचार: तथा 'भक्तपानयोश्च' भक्त पाने च योऽतिचारः तं 'संयतः' साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति सूत्रार्थः ॥ ८९ ॥ | विधिनोत्सारिते चैतस्मिन् 'उज्जुप्पन्न'त्ति सूत्रं, 'ऋजुप्रज्ञः' अकुटिलमतिः सर्वत्र 'अनुद्विग्नः' क्षुदादिजयात्प्रशान्तः अव्याक्षिप्तेन चेतसा, अन्यन्त्रोपयोग मगच्छतेत्यर्थः, आलोचयेद्गुरुसकाशे, गुरोर्निवेदयेदिति भावः, 'यद्' अशनादि 'यथा' येन प्रकारेण हस्तदा (धाव) नादिना गृहीतं भवेदिति सूत्रार्थः ॥९०॥ तदनु च 'न संमंति सूत्रं, न सम्यगालोचितं भवेत् सूक्ष्मम् अज्ञानात्-अनाभोगेनाननुस्मरणाद्वा, पूर्व पश्चाद्वा यत्कृतं पुरःकर्म पश्चात्कर्म वेत्यर्थः, 'पुनः' आलोचनोत्तरकालं प्रतिक्रामेत् 'तस्य' सूक्ष्मातिचारस्य 'इच्छामि पडिक्कमिडं गोअरचरिआए, इत्यादि सूत्रं पठित्वा 'व्युत्सृष्टः' कायोत्सर्गस्थश्चिन्तयेदिदं वक्ष्यमाणलक्षणमिति सूत्रार्थः ॥ ९१ ॥ 'अहो जिणेहिं' सूत्रं, 'अहो' विस्मये 'जिनैः' तीर्थकरै: 'असावया' अपापा 'वृत्तिः' वर्त्तना साधूनां दर्शिता Jain Education International For Private & Personal Use Only ५ पिण्डैपणाध्य० १ उद्देशः ॥ १७९ ॥ www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy