SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ॥१७३॥ मिदं, दानार्थ प्रकृतं नाम-साधुवादनिमित्तं यो ददात्यव्यापारपाखण्डिभ्यो देशान्तरादेरागतो वणिक्प्रभृति- ५ पिण्डैरिति सूत्रार्थः॥४७॥'तारिसंति सूत्रं, तादृशं भक्तपानं दानार्थ प्रवृत्तव्यापार संयतानामकल्पिकं, यतश्चै- षणाध्य० वमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः॥४८॥'असणं' ति सूत्रम्, एवं पुण्यार्थ, पुण्यार्थ १ उद्देशः प्रकृतं नाम-साधुवादानङ्गीकरणेन यत्पुण्यार्थं कृतमिति । अत्राह-पुण्यार्थप्रकृतपरित्यागे शिष्टकुलेषु वस्तुतो भिक्षाया अग्रहणमेव, शिष्टानां पुण्यार्थमेव पाकप्रवृत्तेः, तथाहि-न पितृकर्मादिव्यपोहेनात्मार्थमेव क्षुद्रसत्ववत्प्रवर्तन्ते शिष्टा इति, नैतदेवम्, अभिप्रायापरिज्ञानात्, खभोग्यातिरिक्तस्य देयस्यैव पुण्यार्थकृतस्य नि-2 षेधात्, खभृत्यभोग्यस्य पुनरुचितप्रमाणस्येत्वरयदृच्छादेयस्य कुशलप्रणिधानकृतस्याप्यनिषेधादिति, एतेनाऽदेयदानाभावः प्रत्युक्तः, देयस्यैव यदृच्छादानानुपपत्तेः, कदाचिदपि वा दाने यदृच्छादानोपपत्तेः, तथा व्यवहारदर्शनात्, अनीदृशस्यैव प्रतिषेधात्, तदारम्भदोषेण योगात्, यदृच्छादाने तु तदभावेऽप्यारम्भप्रवृत्तेः नासौ तदर्थ इत्यारम्भदोषायोगात्, दृश्यते च कदाचित्सूतकादाविव सर्वेभ्य एव प्रदानविकला शिष्टाभिमतानामपि पाकप्रवृत्तिरिति, विहितानुष्ठानत्वाच तथाविधग्रहणान्न दोष इत्यलं प्रसङ्गेन, अक्षरगमनिकामात्रफलत्वात्प्रयासस्येति ॥४९॥ तं भवे' त्ति सूत्रं, प्रतिषेधः पूर्ववत् ॥५०॥'असणं ति सूत्रं, एवं वनीपकार्थ वनीपका:-कृपणाः ॥५१॥ तं भवेत्ति सूत्रं, प्रतिषेधः पूर्ववत् ॥५२॥ 'असणं ति सूत्रं, एवं श्रमणार्थ, श्रमणा-निर्ग्रन्थाः शाक्यादयः॥५३॥ 'तं भवे' त्ति सूत्रं, प्रतिषेधः पूर्ववत् ॥५४॥ - CCCCCC CCCX Join Education Intense For Private & Personal use only lainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy