________________
'पानभोजनम् ओदनारनालादि तदित्थंभूतां ददती 'प्रत्याचक्षीत निराकुर्यात् न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रद्वयार्थः ॥३॥ 'पुरेकम्मे त्ति सूत्रं, पुरकर्मणा हस्तेन-साधुनिमित्तं प्राकृतजलोज्झनव्यापारण, तथा 'दा' डोवसदृशया "भाजनेन वा कांस्यभाजनादिना ददती 'प्रत्याचक्षीत' प्रतिषेधयेत्, न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रार्थः ॥ ३२॥ 'एवं ति सूत्रम्, 'एवम्' उदकाद्रेण 'हस्तेन' करेण, उदकाद्रों नाम गलदुदकबिन्दुयुक्तः, एवं सलिग्धेन हस्तेन, सलिग्धो नाम ईषदुदकयुक्तः, एवं 'सरजस्केन हस्तेन' सरजस्को नाम-पृथिवीरजोगुण्डितः, एवं मृद्गतेन हस्तेन' मृद्गतो नाम-कर्दमयुक्तः, एवमूषादिष्वपि योजनीयम् , एतावन्ति एव एतानि सूत्राणि, नवरमूषः-पांशुक्षार, हरितालहिङ्गलकमनःशिला:-पार्थिवा वर्णकभेदाः, अञ्जनं-रसाञ्जनादि लवणं-सामुद्रादि ॥ ३३ ॥ तथा 'गेरु'त्ति सूत्रं, गैरिका-धातुः, वर्णिकापीतमृत्तिका, श्वेतिका-शुक्लमृत्तिका, सौराष्ट्रिका-तुवरिका, पिष्टम्-आमतण्डुलक्षोदः, कुकुसाः प्रतीताः, 'कृतेनेति' एभिः कृतेन, हस्तेनेति गम्यते, तथोत्कृष्ट इति उत्कृष्टशब्देन कालिङ्गालाबुत्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते, चिश्चिणिकादिपत्रसमुदायो वा उदूखलकण्डित इति, तथा असंसृष्टोव्यञ्जनादिना अलिप्तः, संसृष्टश्चैव व्यञ्जनादिलिप्तो बोद्धव्यो हस्त इति, विधिं पुनरत्रोद्ध वक्ष्यति खयमेवेति सूत्रार्थः ॥ ३४॥
असंसट्टेण हत्थेण, दव्वीए भायणेण वा । दिजमाणं न इच्छिज्जा, पच्छाकम्मं जहिं
Jain Education
For Private
Personel Use Only
C
ainelibrary.org