SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ परान रचता यथाव-अध्ययना दशवैका०॥ त्मं चेतः तस्यानयनम् आनीयतेऽनेनेत्यानयनम्, इह कर्ममलरहितः खल्वात्मैव चेतःशब्देन गृह्यते, यथाऽवहारि-वृत्तिः ४ स्थितस्य शुद्धस्य चेतस आनयनमित्यर्थः, तथा चैतदभ्यासाद्भवत्येव, किम्?-'कर्मणां' ज्ञानावरणीयादीनाम क्षीणाय'अपचयो हासः, किंविशिष्टानाम् ?-'उपचितानां मिथ्यात्वादिभिरुपदिग्धानां बद्धानामितिभावः, तथा क्षपणार्थी ॥१६॥ 'अनुपचयश्च' अवृद्धिलक्षणः 'नवाना' प्रत्यग्राणां कर्मणाम् , यतश्चैवं तस्मात् प्राकृतशैल्याऽध्यात्मानयनमेवाध्य-13 यनमिच्छन्त्याचार्या इति गाथार्थः॥ 'अधिगम्यन्ते' परिच्छिद्यन्ते वा अर्था अनेनेत्यधिगमनमेव प्राकृतशैल्या तथाविधार्थप्रदर्शकत्वाचास्य वचसोऽध्ययनमिति, तथा अधिकं च नयनमिच्छन्त्यस्याप्य(पि तथाविधार्थप्रदर्शकत्वादेव वचसोऽयमर्थः, 'अय वय' इत्यादिदण्डकधातुपाठान्नीतिर्नयनम्, भावे ल्युट्प्रत्ययः, परिच्छेद इत्यर्थः, अधिकं नयनमधिकनयनं चार्थतोऽध्ययनमिच्छन्ति, चशब्दस्य च व्यवहित उपन्यासः, अधिकं च साधुर्गच्छति, किमुक्तं भवति?-अनेन करणभूतेन साधुर्बोधसंयममोक्षान् प्रत्यधिकं गच्छति, यस्मादेवं तस्मादध्ययनमिच्छन्ति, इह च सर्वत्र अधिकं नयनमध्ययनमित्येवं योजना कार्येति गाथार्थः ॥ इदानीमक्षीणम्-तच्च भावाक्षीणमिदमेव, शिष्यप्रदानेऽप्यक्षयत्वात्, तथा चाह-यथा दीपाद्दीपशतं प्रदीप्यते, स च दीप्यते दीपः, है एवं 'दीपसमा दीपतुल्या आचार्या दीप्यन्ते स्वतो विमलमत्याशुपयोगयुक्तत्वात् 'परं च विनेयं 'दीपयन्ति । प्रकाशयन्त्युज्ज्वलं वा कुर्वन्तीति गाथार्थः॥ इदानीमायः स च भावत इदमेव, यत आह-ज्ञानस्य मत्यादेः 'दर्शनस्य' चौपशमिकादेः 'चरणस्य च' सामायिकादेः 'येन हेतुभूतेन 'आगमो भवति' प्राप्तिर्भवति.स. Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy