________________
Jain Education I
व्याख्या - ओघो यत्सामान्यं 'श्रुताभिधानं' श्रुतनाम चतुर्विधं तच्च, कथम् ? - अध्ययनमक्षीणमायः क्षपणा च इदं च 'प्रत्येकं' पृथक् पृथक् ॥ किम् ?
नामाइ चउब्भेयं वण्णेंऊणं सुआणुसारेणं । दुमपुष्फिअ आओज्जा चउसुंपि कमेण भावेसुं ॥ २८ ॥
व्याख्या-नामादिचतुर्भेदं वर्णयित्वा तद्यथा-नामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं भावाध्ययनं चेति, एवमक्षीणादीनामपि न्यासः कर्त्तव्यः, 'श्रुतानुसारेण' अनुयोगद्वाराख्यसूत्रानुसारेण, किम् ? - 'द्रुमपुष्पिका आयोज्या' प्रकृताध्ययनं सम्बन्धनीयम्, चतुर्ष्वप्यध्ययनादिषु क्रमेण भावेष्विति गाथार्थः ॥ साम्प्रतं भावाध्ययनादिशब्दार्थ प्रतिपादयन्नाह -
अज्झप्पस्साणयणं कम्माणं अवचओ उवचिआणं । अणुवचओ अ नवाणं तम्हा अज्झयणमिच्छति ।। २९ । अहिगम्मंति अत्था इमेण अहिगं च नयणमिच्छंति । अहिगं च साहु गच्छइ तम्हा अज्झयणमिच्छति ॥ ३० ॥ जह दीवा दीवसयं पइप्पई सो अ दिप्पई दीवो । दीवसमा आयरिया दिप्पंति परं च दीवंति ॥ ३१ ॥
नाणस्स दंसणस्सऽवि चरणस्स य जेण आगमो होई । सो होइ भावआओ आओ लाहो त्ति निद्दिट्ठो ॥ ३२ ॥ अट्ठविहं कम्मरयं पोराणं जं खवेइ जोगेहिं । एयं भावज्झयणं नेअव्वं आणुपुव्वी ॥ ३३ ॥
व्याख्या - आसां गमनिका -इह प्राकृतशैल्या छान्दसत्त्वाच्च अज्झप्पस्साणयणं पकारस (स्स) कारआकारणकारलोपे अज्झयणं ति भण्णइ, तच संस्कृतेऽध्ययनम्, भावार्थस्त्वयं-अधि आत्मनि वर्तत इति निरुक्तादध्या
For Private & Personal Use Only
Jainelibrary.org