SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ १५ ॥ Jain Education दसकालिअस्स एसो पिंडत्थो वण्णिओ समासेणं । एत्तो एक्केकं पुण अज्झयणं कित्तइस्सामि ॥ २५ ॥ व्याख्या- 'दशकालिकस्य' प्राग्निरूपितशब्दार्थस्य 'एषः' अनन्तरोदितः 'पिण्डार्थ:' सामान्यार्थी 'वर्णितः' प्रतिपादितः 'समासेन' संक्षेपेण, अतः ऊर्ध्वं पुनरेकैकमध्ययनं 'कीर्त्तयिष्यामि' प्रतिपादयिष्यामीति, पुन:शब्दस्य व्यवहित उपन्यास इति गाथार्थः ॥ तत्र प्रथमाध्ययनं द्रुमपुष्पिका, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयः, एषां चतुर्णामप्यनुयोगद्वाराणामध्ययनादावुपन्यासः तथेत्थं चक्रमोपन्यासे प्रयोजनमावश्यकविशेषविवरणादवसेयं खरूपं च प्रायश इति । प्रकृताध्ययनस्य च शास्त्रीयोपक्रमे आनुपूर्व्यादिभेदेषु खबुद्ध्याऽवतारः कार्यः, अर्थाधिकारश्च वक्तव्यः, तथा चाह नियुक्तिकारः पढमज्झयणं दुमपुष्फियंति चत्तारि तस्स दाराई । वण्णेउवक्कमाई धम्मपसंसाइ अहिगारो ॥ २६ ॥ व्याख्या - प्रथमाध्ययनं द्रुमपुष्पिकेति अस्य नामनिष्पन्न निक्षेपावसर एव शब्दार्थ वक्ष्यामः, चत्वारि तस्य 'द्वाराणि' अनुयोगद्वाराणि, किम् ? - वर्णयित्वोपक्रमादीनीति, किम् ? - धर्मप्रशंसयाऽधिकारो वाच्य इति गाथार्थः ॥ तथा निक्षेपः, स च त्रिविधः, तद्यथा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघःसामान्यं श्रुताभिधानम्, तथा चाह नियुक्तिकार : ओहो जं सामन्नं सुआभिहाणं चउव्विहं तं च । अज्झयणं अज्झीणं आय ज्झवणा य पत्ते ॥ २७ ॥ For Private & Personal Use Only ओघादिनिक्षेपाः ।। १५ ।। w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy