________________
ज्झत्थेणेह संवुडं ॥१॥” इत्यादि । आचारप्रणिहितश्च यथोचितविनयसम्पन्न एव भवतीत्यतस्तदर्थाधिकारवदेव नवममध्ययनमिति, आह च-नवमेऽध्ययने विनयोर्थाधिकार' इति, उक्तं च-"आयारपणिहाणंमि, से सम्मं वहई बुहे । णाणादीणं विणीए जे, मोक्खहा णिविगिच्छए ॥१॥” इत्यादि । एतेषु एव नवखध्ययनार्थेषु यो व्यवस्थितः स सम्यग् भिक्षुरित्यनेन सम्बन्धेन सभिक्ष्वध्ययनमिति, आह च–'दशमेऽध्य-| यने समाप्तिं नीतमिदं साधुक्रियाभिधायक शास्त्रम्' एतक्रियासमन्वित एव भिक्षुर्भवत्यत आह-एष भिक्षुरिति गाथाचतुष्टयार्थः ॥ स एवंगुणयुक्तोऽपि भिक्षुः कदाचित् कर्मपरतन्त्रत्वात्कर्मणश्च बलवा(वत्त्वात्सी-| देत् ततस्तस्य स्थिरीकरणं कर्त्तव्यमतस्तदाधिकारवदेव चूडाद्वयमित्याह- .
दो अज्झयणा चूलिय विसीययंते थिरीकरणमेगं । बिइए विवित्तचरिया असीयणगुणाइरेगफला ॥ २४ ॥ | व्याख्या-द्वे अध्ययने, किम् ?-चूडा' चूडेव चूडा, तत्र प्रमादवशाद्विषीदति सति साधौ संयमे स्थिरीकरणम् 'एक' प्रथमं स्थिरीकरणफलमित्यर्थः, तथा च तत्रावधावनप्रेक्षिणः साधोः दुष्प्रजीवित्वनरकपातादयो दोषा वर्ण्यन्त इति । तथा च द्वितीयेऽध्ययने विविक्तचर्या वर्ण्यते, किंभूता?-'असीदनगुणातिरेकफला' तत्र 'विविक्तचर्या' एकान्तचर्या-द्रव्यक्षेत्रकालभावेष्वसम्बद्धता, उपलक्षणं चैषा नियतचर्यादीनामिति, असीदनगुणातिरेकः फलं यस्याः सा तथाविधेति गाथार्थः॥
१ भाचारप्रणिधाने स सम्यक् वर्तते बुधः । ज्ञानादिषु विनीतो यो मोक्षार्थ निर्विचिकित्सः ॥१॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org