________________
दशवैका ० हारि-वृत्तिः ॥ १४ ॥
जेवि । धम्मकाट्ठिए सम्मं, सुहजोगाण साहए ॥ १ ॥ इत्यादि । गोचरप्रविष्टेन च सता खाचारं पृष्टेन तद्विदापि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्यः, अपि तु आलये, गुरवो वा कथयन्तीति वक्तव्यमतस्तदर्थाधिकारवदेव षष्ठमध्ययनमिति, आह च षष्ठेऽध्ययनेऽर्थाधिकारः आचारकथा साऽपि महती, न क्षुल्लिका, 'योग्या' उचिता 'महाजनस्य' विशिष्टपरिषद इत्यर्थः, वक्ष्यति च – “गोअरग्गपविट्ठे उ न निसिएज्ज कत्थई । कहं च न पबंधिज्ञा चिट्ठित्ताण व संजए || १ ||" इत्यादि । आलयगतेनापि तेन गुरुणा (वा) वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्यतस्तदर्थाधिकारवदेव सप्तममध्ययनमिति, आह च"वयणविभत्ती" त्यादि, वचनस्य विभक्तिर्वचनविभक्तिः, विभजनं विभक्तिः - एवंभूतमनवद्यमित्थंभूतं च सावद्यमित्यर्थः, पुनः शब्दः शेषाध्ययनार्थाधिकारेभ्यः अस्याधिकृतार्थाधिकारस्य विशेषणार्थ इति सप्तमेऽध्ययनेऽर्थाधिकार इति उक्तं च- "सावजणवज्जाणं वयणाणं जो ण याणइ विसेसं । वोत्तुं पि तस्स न खमं किमंग पुण देसणं कार्ड ? ॥ १ ॥ ” इत्यादि । तच्च निरवद्यं वचः आचारे प्रणिहितस्य भवति इत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति, आह च- प्रणिधानमष्टमेऽध्ययनेऽर्थाधिकारत्वेन 'भणितम्' उक्तम्, प्रणिधानं नाम - विशिष्टश्वेतोधर्म इति उक्तं च- “पणिहाणरहियस्सेह, निरवज्रंपि भासियं । सावज्जतुल्लं विन्नेयं, अ
१ धर्मकायस्थितः सम्यक् शुभयोगानां साधकः ॥ १ ॥ २ गोचराप्रप्रविष्टस्तु न निषीदेत् कुत्रचित् । कथां च न प्रबध्नीयात् स्थित्वा वा संयतः ॥ १ ॥ ३ सावधानवद्यानां वचनानां यो न जानाति विशेषम् । बक्तुमपि तस्य नार्ह किमङ्ग पुनर्देशनां कर्त्तुम् ? ॥ १ ॥ ४ प्रणिधानरहितस्येह निरवयमपि भाषितम् । सावद्यतुल्यं विज्ञेयमध्यात्मस्थेनेह संवृतम् ॥ १ ॥
Jain Education International
For Private & Personal Use Only
अध्ययनार्थाधि
काराः
॥ १४ ॥
www.jainelibrary.org