SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ दुल्लहो तेसिं ॥१॥” सा पुनधृतिराचारे कार्यान त्वनाचारे इत्यतस्तदाधिकारवदेव तृतीयाध्ययनम् , आह च-तृतीयेऽध्ययने कोऽर्थाधिकार इत्यत आह-आचारगोचरा कथा आचारकथा, सा चेहैवाणुविस्तरभेदात्, य(अ)त आह–'क्षुल्लिका' लघ्वी, सा च 'आत्मसंयमोपाय' संयमनं संयमः आत्मनः संयम आत्मसंयमस्तदु|पायः, उक्तं च-"तस्यात्मा संयमो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः ॥१॥” इति, स चाचारः षड्जीवनिकायगोचरःप्राय इत्यतश्चतुर्थमध्ययनम् , अथवाऽऽत्मसंयमः-तदन्यजीवपरिज्ञानपरिपालनमेव तत्त्वत इत्यतस्तदर्थाधिकारवदेव चतुर्थमध्ययनम्, आह च-'तथा जीवसंयमोऽपि च' भवति चतुर्थेऽध्ययनेाधिकार इति, अपिशब्दादात्मसंयमोऽपि तद्भावभाव्येव वर्त्तते, उक्तं च-"छसु जीवनिकाएमुं, जे बुहे संजए सया । से चेव होइ विण्णेए, परमत्थेण संजए ॥१॥” इत्यादि । एवमेव च धर्मः, सच देहे वस्थे सति सम्यक् पाल्यते, स चाहारमन्तरेण प्रायः खस्थो न भवति, स च सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्यतस्तदाधिकारवदेव पश्चममध्ययनमिति, आह च-भिक्षाविशोधिस्तपःसंयमस्य गुणकारिकैव पञ्चमेऽध्ययनेऽर्थाधिकार' इति, तत्र भिक्षणं भिक्षा तस्याः विशोधिः-सावद्यपरिहारेणेतरखरूपकथनमित्यर्थः, तपःप्रधान: संयमस्तपःसंयमस्तस्य गुणकारिकैवेयं वर्तत इति, उक्तं च-से संजए समक्खाए, निरवजाहार १ षट्स जीवनिकायेषु यो बुधः संयतः सदा । स चैव भवति विज्ञेयः परमार्थेन संयतः ॥ १॥ २ स संयतः समाख्यातो निरवद्याहार यो विद्वान् । ARASPOSATSAUCAIAIAISIAIS VIA Jain Education Internet For Private & Personel Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy