________________
दशवैका० णीअदुवारं तमसं, कुटुगं परिवजए । अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहा (हगा)
| ५ पिण्डैहारि-वृत्तिः ।
पणाध्य. ॥२०॥ जत्थ पुप्फाइं बीआई, विप्पइन्नाई कुट्ठए।अहुणोवलित्तं उल्लं, दट्टणं परिवजए ॥१६७॥
॥२१॥ एलगं दारगं साणं, वच्छगं बावि कुट्टए । उल्लंधिआ न पविसे, विउहित्ताण
व संजए ॥ २२॥ तथा 'नीयदुवार'न्ति सूत्रं, 'नीचद्वारं' नीचनिर्गमप्रवेशं 'तमसमिति तमोवन्तं 'कोष्ठकम्' अपवरकं पपरिवर्जयेत्, न तत्र भिक्षां गृह्णीयात्, सामान्यापेक्षया सर्व एवंविधो भवत्यत आह-'अचक्षुर्विषयो यत्र' न
चक्षुापारो यत्रेत्यर्थः, अत्र दोषमाह-प्राणिनो दुष्पत्युपेक्षणीया भवन्ति, ईर्याशुद्धिर्न भवतीति सूत्रार्थः ॥२०॥ किंच-'जत्थ'त्ति सूत्रं, यत्र 'पुष्पाणि' जातिपुष्पादीनि 'बीजानि' शालिबीजादीनि 'विप्रकीर्णानि' अने-IN कथा विक्षिप्तानि, परिहर्तुमशक्यानीत्यर्थः, कोष्ठके कोष्ठकद्वारे वा, तथा 'अधुनोपलि' साम्प्रतोपलिप्तम् 3 'आम्' अशुष्क कोष्ठकमन्यद्वा दृष्ट्वा परिवर्जयेद्दरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमात्मविराधनापत्तेरिति सूत्रार्थः॥२१॥ किं च-एलगंति सूत्रम्, 'एडक' मेषं 'दारक' बालं 'श्वानं मण्डलं 'घत्सकं वापि क्षुद्रवृषभलक्षणं कोष्ठके उल्लल्य पद्भ्यां न प्रविशेत्, 'व्यूह्य वा' प्रेर्य बेत्यर्थः, 'संयतः' साधुः आत्मसंयमविराधनादोषाल्लाघवाचेति सूत्रार्थः ॥ २२ ॥
R
॥१६७॥
Jain Education Internation
For Private & Personal Use Only
Mainelibrary.org