________________
Jain Education Inte
अतसीवल्कजा पटी, प्रावारः - प्रतीतः कम्बल्याग्रुपलक्षणमेतत् एवमादिभिः पिहितं स्थगित, गृहमिति वा क्यशेषः । 'आत्मना ' स्वयं 'नापवृणुयात्' नोद्घाटयेदित्यर्थः, अलौकिकत्वेन तदन्तर्गत भुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात्, तथा 'कपाटं' द्वारस्थगनं 'न प्रेरयेत्' नोद्घाटयेत् पूर्वोक्तदोषप्रसङ्गात् किमविशेषेण ?, ने| त्याह- 'अवग्रहमयाचित्वा' आगाढप्रयोजनेऽननुज्ञाप्यावग्रहं विधिना धर्मलाभमकृत्वेति सूत्रार्थः ॥ १८ ॥ गोअर'गपविट्ठो अ, वच्चमुत्तं न धारए । ओगासं फासुअं नच्चा, अणुन्नविअ वोसिरे ॥ १९ ॥
विधिशेषमाह - 'गोयरग्ग'त्ति सूत्रं, गोचराग्रप्रविष्टस्तु वर्चो मूत्रं वा न धारयेत् अवकाशं प्रासुकं ज्ञात्वाऽनुज्ञाप्य व्युत्सृजेदिति । अस्य विषयो वृद्धसंप्रदायादवसेयः, स चायम् - पुव्वमेव साहुणा सन्नाकाइओ वयोगं काऊण गोअरे पविसिअव्वं, कहिंवि ण कओ कए वा पुणो होज्जा ताहे वचमुत्तं ण धारेअव्वं, जओ मुत्तनिरोहे चक्खुवधाओ भवति, वचनिरोहे जीविओवघाओ, असोहणा अ आयविराहणा, जओ भणिअं - 'सव्वत्थ संजम' मित्यादि, अओ संघाडयस्स सयभायणाणि समप्पिअ पडिस्सए पाणयं गहाय सन्नाभूमीए विहिणा वोसिरिज्जा | वित्थरओ जहा ओहणिजत्तीए । इति सूत्रार्थः ॥ १९ ॥
१ पूर्वमेव साधुना संज्ञाकायिकोपयोगं कृत्वा गोचरे प्रवेष्टव्यं कदाचिन्न कृतः कृते वा पुनर्भवेत् तदा वर्चोमूत्रं न धारयितव्यं यतो मूत्रनिरोधे चक्षुष उपघातो भवति, बर्चोनिरोधे जीवितोपघातः, अशोभना चात्मविराधना, यतो भणितम्- सर्वत्र संयममित्यादि, अतः सङ्घाटकाय स्वकभाजनानि समर्प्य प्रतिश्रयात्पानीयं गृहीत्वा संज्ञाभूमौ विधिना व्युत्सृजेत् विस्तरतो यथा ओघनिर्युको.
For Private & Personal Use Only
lainelibrary.org