________________
त्तिआ ॥ ९॥ अणायणे चरंतस्स, संसग्गीए अभिक्खणं । हुज वयाणं पीला, सामनंमि अ संसओ ॥ १०॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । वजए वेससा
मंतं, मुणी एगंतमस्सिए ॥ ११ ॥ . उक्ता प्रथमव्रतयतना, साम्प्रतं चतुर्थव्रतयतनोच्यते-'न चरेज'त्ति सूत्रं, 'न चरेद्वेश्यासामन्ते' न गच्छेद्गणिकागृहसमीपे, किंविशिष्ट इत्याह-'ब्रह्मचर्यवशानयने(नये) ब्रह्मचर्य-मैथुनविरतिरूपं वशमानयति-आत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन्, दोषमाह-ब्रह्मचारिणः' साधोः 'दान्तस्य' इन्द्रियनोइन्द्रियदमाभ्यां भवेत् 'तत्र' वेश्यासामन्ते 'विस्रोतसिका' तद्रूपसंदर्शनस्मरणापध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमस(श)स्यशोषफला चित्तविक्रियेति सूत्रार्थः॥९॥ एष सकृचरणदोषो वेश्यासामन्तसंगत उक्तः, साम्प्रतमिहान्यत्र चासकृच्चरणदोषमाह-'अणायणे'त्ति सूत्रम्, अनायतने-अस्थाने वेश्यासामन्तादौ 'चरतो' गच्छतः 'संसर्गेण' संबन्धेन 'अभीक्ष्णं' पुनः पुनः, किमित्याह-भवेत् 'व्रतानां' प्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तचेतसो भावविराधना, 'श्रामण्ये च' श्रमणभावे च द्रव्यतो रजोह-18 रणादिधारणरूपे भूयो भावव्रतप्रधानहेतौ संशयः, कदाचिदुन्निष्क्रामत्येवेत्यर्थः, तथा च वृद्धव्याख्या-वेसा
१ वेश्यादिगतभावस्य मैथुनं पीज्यते, अनुपयोगेनैषणाऽकरणे हिंसा, प्रत्युत्पादने (वर्तमाने ) अन्यपृच्छायामपलापेऽसखवचनम्, अननुज्ञातवेश्याया दर्शने| ऽदत्तादान, ममताकरणे परिग्रहः, एवं सर्वव्रतपीडा, द्रव्यश्रामण्ये पुनः संशय उनिष्क्रमणेन.
Jan Education Intel
For Private Personel Use Only
inelibrary.org