________________
५ पिण्डैषणाध्य०
दशवैका० तानि' प्राणिनो-द्वीन्द्रियादयः भूतानि-एकेन्द्रियाः, एतदेवाह-प्रसानथवा स्थावरान्, प्रपातेनात्मानं चेत्येहारि-वृत्तिः । वमुभयविराधनेति सूत्रार्थः ॥५॥ यतश्चैवं 'तम्हा' सूत्रं, व्याख्या-तस्मात्तेन-अवपातादिमार्गेण न गच्छेत
संयतः सुसमाहितो, भगवदाज्ञावर्तीत्यर्थः, 'सत्यन्येने ति अन्यस्मिन् समादौ 'मार्गेणे ति मार्गे, छान्दसत्वा ॥ १६४॥ त्सप्तम्यर्थे तृतीया, असति त्वन्यस्मिन्मार्गे तेनैवावपातादिना 'यतमेव पराक्रमेत् यतमिति क्रियाविशेषणं.
यतमात्मसंयमविराधनापरिहारेण यायादिति सूत्रार्थः॥६॥ अत्रैव विशेषतः पृथिवीकाययतनामाह-ई. गाल'मिति सूत्रम्, आङ्गारमिति अङ्गाराणामयमाङ्गारस्तमाङ्गारं राशिम्, एवं क्षारराशि, तुषराशिं च गोमयराशिं च, राशिशब्दः प्रत्येकमभिसंबध्यते 'सरजस्काभ्यां पद्भया' सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां 'संयतः' साधुः'तम्' अनन्तरोदितं राशिं नाकामेत्, मा भूत्पृथिवीरजोविराधनेति सूत्रार्थः॥७॥ अत्रैवाप्कायादियतनामाह-'न चरेजत्ति सूत्रं, न चरेद्वर्षे वर्षति, भिक्षार्थ प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत्, तथा महिकायां वा पतन्त्यां, सा च प्रायो गर्भमासेषु पतति, महावाते वा वाति सति, तदुत्खातरजोविराधनादोपात, तिर्यसंपतन्तीति तिर्यसंपाता:-पतङ्गादयः तेषु वा सत्सु कचिदशनिरूपेण न चरेदिति सूत्रार्थः॥८॥
न चरेज वेससामंते, बंभचेरवसाणु(ण)ए । बंभयारिस्स दंतस्स, हुज्जा तत्थ विसु१ ईतिरूपो हि पतङ्गादेरापात इति पूर्वेणान्वयः, यद्वा हेतौ तृतीयेति साधुखरूपाख्यानं.
॥१४॥
Jain Education Intel
For Private Personal Use Only