________________
भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम्-णवं कोडीओ दोहिं रागद्दोसेहिं गुणियाओ अट्ठारस हवंति, ताओ चेव नव तिहिं मिच्छत्ताणाणअविरतीहिं गुणिताओ सत्तावीसं हवंति, सत्तावीसा रागदोसेहिं गुणिया चउप्पन्ना हवंति, ताओ चेव णव दसविहेण समणधम्मेण गुणिआओ विसुद्धाओ णउती भवंति, सा उती तिहिं नाणदंसणचरित्तेहिं गुणिया दो सया सत्तरा भवंतीति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपाणं गवेसए॥१॥ से गामे वा नगरे वा, गोअरग्गगओ मुणी । चरे मंदमणुव्विग्गो, अव्वक्खित्तेण
चेअसा ॥२॥ अस्य व्याख्या संप्राप्ते' शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते 'भिक्षाकाले' भिक्षासमये, अनेनासंप्राप्ते भक्तपानैषणाप्रतिषेधमाह, अलाभाज्ञाखण्डनाभ्यां दृष्टादृष्टविरोधादिति, 'असंभ्रान्तः' अनाकुलो
१ नव कोट्यो द्वाभ्यां रागद्वेषाभ्यां गुणिता अष्टादश भवन्ति, ता एव नव त्रिमिर्मिथ्यात्वाज्ञानाविरतिभिर्गुणिताः सप्तविंशतिः भवति, सप्तविंशतिः रागद्वेषाभ्यां | गुणिता चतुष्पञ्चाशत् भवति, ता एव नव दशविधेन श्रमणधर्मेण गुणिता विशुद्धा नवतिर्भवति, सा एव नवतिः त्रिभिः ज्ञानदर्शनचारित्रैर्गुणिता द्वेशते सप्ततिश्च भवति.
दश०२८
Jain Education Intera
For Private & Personel Use Only
jainelibrary.org