________________
दशवैका ० हारि-वृत्तिः ॥ १६२ ॥
Jain Education Inter
पृथक्स्थापनतो मया व्याख्यातैवेति नेह व्याख्यायते । अधुना प्रकृताध्ययनावतारप्रपञ्चमाह - पिण्डेषणा च 'सर्वा' उद्गमादिभेदभिन्ना संक्षेपेणावतरति नवसु कोटीपु, ताचेमाः न हन्ति न पचति न क्रीणाति स्वयं, तथा न घातयति न पाचयति न क्रापयत्यन्येन, तथा नन्तं वा पचन्तं वा क्रीणन्तं वा न समनुजानात्यन्यमिति नव । एतदेवाह - कारणानुमतिभ्यां नवेति गाथार्थः ॥ सा नवधा स्थिता पिण्डेषणा द्विविधा क्रियते-उद्गमकोटी विशो घिकोटी च तत्र षट्सु हननघातनानुमोदनपचनपाचनानुमोदनेषु प्रथमा - उद्गमकोटी अविशोधिकोट्यवतरति, श्रीतत्रितये क्रयणकापणानुमतिरूपे विशोधिस्तु-विशोधिकोटी द्वितीयेति गाथार्थः ॥ एतदेव व्याचिख्यासुराह भाष्यकार:- 'कोटीकरण' मिति कोट्येव कोटीकरणं, कोटी (करण) द्विविधम्-उद्गमकोटी विशोधिकोटी च, उद्गमकोटी पट्ट-हननादिनिष्पन्नमाधाकर्मादि, विशोधिकोटी - क्रीतत्रितयनिष्पन्ना अनेकधा ओघौदेशिकादिभेदेनेति गाथार्थः ॥ षट्कोट्याह- कर्म- संपूर्णमेव औदेशिकचरमत्रितयं - कमदेशिकस्य पाखण्डश्रमणनिग्रन्थविषयं, पूति- भक्तपानपूत्येव मिश्रग्रहणात्पाखण्डश्रमणनिर्ग्रन्थमिश्रजातं चरमप्राभृतिका बादरेत्यर्थः, अध्यवपूरक इत्यविशोधिरित्येतत्ष्टुं । विशोधिकोटी भवति शेषा-ओघौद्देशिकादिभेदभिन्नाऽनेकविधेति गाथार्थः।। इहैव रागादियोजनया कोटीसंख्यामाह - नव चैव कोट्यः तथाऽष्टादशकं कोटीनां तथा सप्तविंशतिः कोदीनां तथैव चतुष्पञ्चाशत्कोटीनां तथा नवतिः कोटीनां द्वे एव च शते सप्तत्यधिके कोटीनामिति गाथाक्षरार्थः ॥
१ संख्या समाहारे द्विगुवानाश्ययम् ( सि० ३-१-९९ ) इति द्विगुभावेनैकवद्भावः.
For Private & Personal Use Only
५ पिण्डै
पणाध्य०
॥ १६२ ॥
inelibrary.org