________________
Jain Education In
तव्यं, चतुश्चतुर्निक्षेपाभ्यां नामादिलक्षणाभ्यां प्ररूपणा 'तस्य' पदद्वयस्य कर्तव्येति गाथार्थः ॥ अधिकृतप्ररूपणामाह - नामस्थापनापिण्डो द्रव्ये भावे च भवति ज्ञातव्यः, पिण्डशब्दः प्रत्येकमभिसंबध्यते, नामस्थापने क्षुण्णे, द्रव्यपिण्डं त्वाह-गुडौदनादि: 'द्रव्य' मिति द्रव्यपिण्डः, भावे क्रोधादयश्चत्वारः पिण्डा इति गाथार्थः ॥ अत्रैवान्वर्थमाह - 'पिडि संघाते' धातुरिति शब्दवित्समयः यस्मात्ते क्रोधादय उदिताः सन्तो विपाकप्रदेशोदयाभ्यां संहता एव संसारिणं संघातयन्ति - जीवं योजयन्तीत्यर्थः, केनेत्याह- कर्मणाऽष्टप्रकारेण - ज्ञानावरणीयादिना, अतः क्रोधादयः पिण्ड इति गाथार्थः ॥ प्ररूपितः पिण्डः, साम्प्रतमेषणाऽवसरः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यैषणामाह-द्रव्यैषणा तु त्रिविधा भवति, सचित्ताचित्तमिश्रद्रव्याणामेषणा द्रव्यैषणा, सचित्तानां द्विपदचतुष्पदापदानां यथासंख्यं नरगजदुमाणामिति, कार्षापणग्रहणादचित्तद्रव्यैषणा अलङ्कृत| द्विपदादिगोचरमिश्रद्रव्यैषणा च द्रष्टव्येति गाथार्थः ॥ भावैषणामाह - भावैषणा तु पुनर्द्विविधा, प्रशस्ता अप्रशस्ता च ज्ञातव्या, एतदेवाह - 'ज्ञानादीना' मिति ज्ञानादीनामेषणा प्रशस्ता क्रोधादीनामप्रशस्तैषणेति गाथार्थः ॥ प्रकृतयोजनामाह - 'भावस्य' ज्ञानादेरुपकारित्वाद् 'अत्र' प्रक्रमे द्रव्यैषणयाऽधिकारः, 'तस्याः' पुनर्द्रव्यैषणायाः 'अर्थयुक्ति:' हेयेतररूपा अर्थयोजना वक्तव्या पिण्डनिर्युक्तिरिति गाथार्थः ॥ सा च
१ पिण्डनिर्युक्तेः पृथक्स्थापितत्वात् तत्र भद्रबाहु खामिनाऽर्थयुक्तिर्व्याख्यातेति नात्राध्ययनार्थाधिकारे तयाख्यानम् । अन्यथा वाऽस्ति हरिभद्रसूरिकृता पिण्डनिर्युक्तिवृत्तिरिति तामाश्रित्यापि स्यादिदं वचः.
For Private & Personal Use Only
jainelibrary.org