SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter अथ पञ्चमाध्ययनम् । DDC C अधुना पिण्डेषणाख्यमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने 'साधोराचारः षड्जीवनिकायगोचरः प्राय' इत्येतदुक्तम्, इह तु धर्मकाये सत्यसौ वस्थे सम्यक्पात्यते स चाहारमन्तरेण प्रायः स्वस्थो न भवति, स च सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्येतदुच्यते, उक्तं च- “" से संजए समक्खाए, निरवज्जाहारि जे विक । धम्मकाट्ठिए सम्मं, सुहजोगाण साहए ॥ १ ॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनं भङ्गयन्तरेणैतदेवाह भाष्यकारः - मूलगुणा वक्खाया उत्तरगुणअवसरेण आयायं । पिंडज्झयणमियाणि निक्खेवे नामनिफन्ने ॥ ६१ ॥ भाष्यम् ॥ व्याख्या- 'मूलगुणाः' प्राणातिपातनिवृत्त्यादयः 'व्याख्याताः' सम्यक् प्रतिपादिता अनन्तराध्ययने, ततश्च 'उत्तरगुणावसरेण' उत्तरगुणप्रस्तावेनायातमिदमध्ययनम् - इदानीं यत्प्रस्तुतम् । इह चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तथा चाह - निक्षेपे नामनिष्पन्ने, किमित्याह पिंडो अ एसणा यदुपयं नामं तु तस्स नायव्वं । चउचउनिक्खेवेहिं परूवणा तस्स कायव्वा ।। २३४ ॥ १ स संयतः समाख्यातो निरवद्याहारं यो विद्वान् । धर्मकाय स्थितः सम्यक् शुभयोगानां साधकः ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy