________________
दशवैका ० हारि-वृत्तिः
॥ १५९ ॥
मिथ्यादृष्टिनोपात्तमित्यर्थः ॥ २० ॥ 'जया' इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा 'सर्वत्रगं ज्ञानम्' अशेषज्ञेयविषयं 'दर्शनं च' अशेषदृश्यविषयम् 'अधिगच्छति' आवरणाभावादाधिक्येन प्राप्नोतीत्यर्थः ॥ २१ ॥ 'जया' इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति तदा 'लोकं' चतुर्दशरजवात्मकम् 'अलोकं च' अनन्तं जिनो जानाति केवली, लोकालोकौ च सर्व नान्यतरमेवेत्यर्थः ॥ २२ ॥ 'जया' इत्यादि, यदा लोकमलोकं च जिनो जानाति केवली तदोचित समयेन योगान्निरुद्ध्य मनोयोगादीन् शैलेशीं प्रतिपद्यते, भवो| पग्राहिकर्माशयाय ॥ २३ ॥ 'जया' इत्यादि, यदा योगान्निरुद्ध्य शैलेशीं प्रतिपद्यते तदा कर्म क्षपयित्वा भवोपग्राह्यपि 'सिद्धिं गच्छति' लोकान्तक्षेत्ररूपां 'नीरजा'' सकलकर्मरजोविनिर्मुक्तः ॥ २४ ॥ 'जया' इत्यादि, यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजा' तदा 'लोकमस्तकस्थः ' त्रैलोक्योपरिवर्त्ती सिद्धो भवति 'शाश्वतः' कर्मबीजाभावादनुत्पत्तिधर्मेति भावः । उक्तो धर्मफलाख्यः षष्ठोऽधिकारः ॥ २५ ॥
Jain Education International
सुहसायगस्स समणस्स, सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स, दुलहा सुगई तारिसगस्स ॥ २६ ॥ तवोगुणपहाणस्स उज्जुमइ खंतिसंजमरयस्स । परीसहे जिणंतस्स सुलहा सुगई तारिसगस्स ॥ २७ ॥ पच्छावि ते पयाया, खिप्पं
१ नैषा गाथा वित्रता पूज्यैः हरिभद्राचार्यैवर्णिकृद्भिव.
For Private & Personal Use Only
all
४ षड्जीवनिकाध्य०
जीवस्वरूपं
॥ १५९ ॥
jainelibrary.org