________________
*
*
साम्प्रतं षष्ठेऽधिकारे धर्मफलमाह-'जया' इत्यादि, 'यदा' यस्मिन् काले जीवानजीवांश्च द्वावप्येतौ विजानाति-विविधं जानाति 'तदा' तस्मिन् काले 'गति' नरकगत्यादिरूपां 'बहुविधा' स्वपरगतभेदेनानेकप्रकारां
सर्वजीवानां जानाति, यथाऽवस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात् ॥१४॥ उत्तरोत्तरां लफलवृद्धिमाह-'जया' इत्यादि, यदा गतिं बहुविधां सर्वजीवानां जानाति तदा पुण्यं च पापं च-बहुविधग
तिनिबन्धनं [च] तथा 'बन्धं जीवकर्मयोगदुःखलक्षणं 'मोक्षं च तद्वियोगसुखलक्षणं जानाति ॥१५॥ 'जया' इत्यादि, यदा पुण्यं च पापं च बन्धं मोक्षं च जानाति तदा निर्विन्ते-मोहाभावात् सम्यग्विचारयत्यसारदु:खरूपतया 'भोगान्' शब्दादीन् यान् दिव्यान् यांश्च मानुषान् , शेषास्तु वस्तुतो भोगा एव न भवन्ति ॥१६॥ 'जया' इत्यादि, यदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् तदा त्यजति 'संयोगं संबन्धं द्रव्यतो भावतः 'साभ्यन्तरबाद्यं क्रोधादिहिरण्यादिसंबन्धमित्यर्थः ॥ १७॥ 'जया' इत्यादि, यदा त्यजति संयोगं साभ्यन्तरबाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च 'प्रव्रजति' प्रकर्षेण व्रजत्यपवर्ग प्रत्यनगारं, द्रव्यतो भावतश्चाविद्यमानागारमिति भावः ॥१८॥'जया' इत्यादि, यदा मुण्डो भूत्वा प्रव्रजत्यनगारं तदा 'संवरमुक्किट्ठति प्राकृतशैल्या उत्कृष्टसंवरं धर्म-सर्वप्राणातिपातादिविनिवृत्तिरूपं, चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरं-सम्यगासेवत इत्यर्थः ॥ १९ ॥ 'जया' इत्यादि, यदोत्कृष्टसंवरं धर्म स्पृशत्यनुत्तरं तदा धुनोति-अनेकार्थत्वात्पातयति 'कर्मरज' कमैव आत्मरञ्जनाद्रज इव रजः, किंविशिष्टमित्याह-'अबोधिकलुषकृतम्' अयोधिकलुषेण |
*
*
*
For Private Personal Use Only
Join Education
Winelibrary.org