________________
Jain Education Int
अन्धमदीस पलायन घुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तम् - "गी अत्थो अ बिहारो बीओ गीअत्थमीसिओ भणिओ” इत्यादि, अतो ज्ञानाभ्यासः कार्यः ॥ १० ॥ तथा चाह - 'सोचा' इत्यादि, 'श्रुत्वा' आकर्ण्य ससाधनखरूपविपाकं 'जानाति' बुद्ध्यते 'कल्याणं' कल्यो - मोक्षस्तमणति प्रापयतीति कल्याणं-दयाख्यं संयमखरूपं, तथा श्रुत्वा जानाति पापकम् - असंयमखरूपम्, 'उभयमपि संयमासंयमस्वरूपं श्रावकोपयोगि जानाति श्रुत्वा, नाश्रुत्वा यतश्चैवमत इत्थं विज्ञाय यत् छेकं निपुणं हितं कालोचितं तत्समाचरेत्कुर्यादित्यर्थः ॥ ११ ॥ उक्तमेवार्थ स्पष्टयन्नाह - 'जो जीवेऽवि' इत्यादि, यो 'जीवानपि पृथिवीकायिकादिभेदभिन्नान् न जानाति 'अजीवानपि संयमोपघातिनो मद्यहिरण्यादीन्न जानाति, जीवाजीवानजानन्कथमसौ ज्ञास्यति 'संयमं ?' तद्विषयं तद्विषयाज्ञानादिति भावः ॥ १२ ॥ ततश्च यो जीवानपि जानात्यजीवानपि जानाति जीवाजीवान् विजानन् स एव ज्ञास्यति संयममिति । प्रतिपादितः पञ्चम उपदेशार्थाधिकारः ॥ १३ ॥
जया जीवमजीवे अ, दोऽवि एए वियाणइ । तया गईं बहुविहं, सव्वजीवाण जाइ ॥ १४ ॥ जया गईं बहुविहं, सव्वजीवाण जाणइ । तया पुण्णं च पावं च, बंधं मुक्खं च जाइ ॥ १५ ॥ जया पुण्णं च पावं च, बंधं मुक्खं च जाणइ । तया नि
१ गीतार्थश्च विहारो द्वितीयो गीतार्थमिश्रितो भणितः.
For Private & Personal Use Only
ainelibrary.org