________________
दशवैका ० हारि-वृत्तिः
॥ १५७ ॥
Jain Education
बन्धो न भवतीत्यर्थः ॥ ९ ॥ एवं सति सर्वभूतदयावतः पापकर्मबन्धो न भवतीति, ततश्च सर्वात्मना दयायामेव यतितव्यम्, अलं ज्ञानाभ्यासेनापि (नेति) मा भूदव्युत्पन्नविनेयमतिविभ्रम इति तदपोहायाह
पढमं नाणं तउ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही, किंवा नाही - अपावगं ? ॥ १० ॥ सोच्चा जाणइ कल्लाणं, सोच्चा जाणइ पावगं । उभयंपि जाणए सोच्चा, जं छेयं तं समायरे ॥ ११ ॥ जो जीवेवि न याणेइ, अजीवेवि न याणेइ । जीवाजीवे अयाणंतो, कह सो नाहीइ संजमं? ॥ १२ ॥ जो जीवेवि वियाणेइ, अजीवेवि वियाणेइ । जीवाजीवे वियाणंतो, सो हु नाहीइ संजमं ॥ १३ ॥
४ षड्जीवनिकाध्य० जीवस्वरूपं
'पढमं णाण' मित्यादि, प्रथमम् - आदौ ज्ञानं - जीवखरूपसंरक्षणोपायफलविषयं 'ततः' तथाविधज्ञानसमनन्तरं 'दया' संयमस्तदेकान्तोपादेयतया भावतस्तत्प्रवृत्तेः, 'एवम्' अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण 'तिष्ठति' आस्ते 'सर्वसंयतः' सर्वः प्रव्रजितः, यः पुनः 'अज्ञानी' साध्योपायफल परिज्ञानविकलः स किं करिष्यति ?, सर्वत्रान्धतुल्यत्वात्प्रवृत्तिनिवृत्तिनिमित्ताभावात् किं वा कुर्वन् ज्ञास्यति 'छेकं' निपुणं हितं ॥ १५७ ॥ कालोचितं 'पापकं वा' अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समग्रनिमित्ताभावात्,
For Private & Personal Use Only
Jainelibrary.org