________________
A4<44***
नासमाहितो हस्तपादादि विक्षिपन्, शेषं पूर्ववत् ॥२॥ एवमयतमासीनो-निषण्णतया अनुपयुक्त आकुश्चनादिभावेन, शेषं पूर्ववत् ॥३॥ एवमयतं स्वपन-असमाहितो दिवा प्रकामशय्यादिना(वा), शेषं पूर्ववत् ॥४॥ एवमयतं भुञ्जानो-निष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना(वा), शेषं पूर्ववत् ॥५॥ एवमयतं भाषमाणोगृहस्थभाषया निष्ठुरमन्तरभाषादिना(वा), शेषं पूर्ववत् ॥६॥ अत्राह-यद्येवं पापकर्मबन्धस्ततः 'कहं चरे' इत्यादि, 'कथं केन प्रकारेण चरेत् , कथं तिष्ठेत्, कथमासीत, कथं खपेत्, कथं भुनानो भाषमाणः पापं कर्म न बनातीति?॥७॥ आचार्य आह-'जयं चरे' इत्यादि, यतं चरेत्-सूत्रोपदेशेनेर्यासमितः, यतं तिष्ठेत्-समाहितो हस्तपादाद्यविक्षेपेण, यतमासीत-उपयुक्त आकुश्चनाद्यकरणेन, यतं खपेत्-समाहितो रात्रौ प्रकामशय्यादिपरिहारेण, यतं भुञान:-सप्रयोजनमप्रणीतं प्रतरसिंहभक्षितादिना, एवं यतं भाषमाणः-साधुभाषया मृदु कालप्राप्तं च 'पापं कर्म क्लिष्टमकुशलानुबन्धि ज्ञानावरणीयादि 'न बनाति नादत्ते, निराश्रवत्वात् विहितानुष्ठानपरत्वादिति ॥८॥ किंच-सव्वभूय' इत्यादि, सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतो, य आत्मवत् सर्वभूतानि पश्यतीत्यर्थः, तस्यैवं सम्यग्-वीतरागोक्तेन विधिना भूतानि-पृथिव्यादीनि पश्यतः सतः 'पिहिताश्रवस्य' स्थगितप्राणातिपातायाश्रवस्य 'दान्तस्य' इन्द्रियनोइन्द्रियदमेन 'पापं कर्म न बध्यते' तस्य पापकर्म
*
*
*
***
१ प्रतिक्रमणं कृत्वा खाध्यायः ततः शयनं वि. प.
दश०२७
Jain Education Inter
For Private
Personel Use Only