________________
Jain Education
'से भिक्खू वा इत्यादि यावज्जागरमाणे वत्ति पूर्ववत्, 'से कीडं वा' इत्यादि, तद्यथा - कीटं वा पत वा कुन्युं वा पिपीलिकां वा, किमित्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठे वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं असं कथञ्चिदापतितं सन्तं संयत एव सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौनःपुन्येन सम्यक् प्रमृज्य प्रमृज्य - पौनःपुन्येनैव सम्यक, किमित्याह - 'एकान्ते' तस्यानुपघातके स्थाने 'अपनयेत्' परित्यजेत्, 'नैनं त्रसं संघातमापादयेत्' नैनं त्रसं संघातं - परस्परगात्रसंस्पर्शपीडारूपमापादयेत्-प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः, 'एकग्रहणे तज्जातीयग्रहणाद्' अन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्द्रकं स्थण्डिलं, शय्या-संस्तारिका वसतिर्वा । इत्युक्ता यतना, गतश्चतुर्थोऽर्थाधिकारः ॥
1
अजयं चरमाणो अ (उ), पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कहुअंफलं ॥ १ ॥ अजयं चिट्टमाणो अ, पाणभूयाइं हिंसइ । बंधई पावयं कम्मं तं से होइ कडुअंफलं ॥ २ ॥ अजयं आसमाणो अ, पाणभूयाइ हिंसइ । बंधई पावयं कम्मं, 'से होइ कडुअंफलं ॥ ३ ॥ अजयं सयमाणो अ, पाणभूयाई हिंसइ । बंधई पावयं
For Private & Personal Use Only
jainelibrary.org