SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ वेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि १॥ (सू० १०) । 'से' इति निर्देशे स योऽसौ महाव्रतयुक्तो, भिक्षुर्वा भिक्षुकी वा-आरम्भपरित्यागाधर्मकायपालनाय है। भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि, पुरुषोसमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानीति, आह–संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा तत्र सामस्त्येन यतः संयतः-सप्तदशप्रकारसंयमोपेतः, विविधम्-अनेकधा द्वादशविधे तपसि रतो विरता, प्रतिहतप्रत्याख्यातपापकर्मेति-प्रतिहतंस्थितिहासतो ग्रन्थिभेदेन प्रत्याख्यातं-हेत्वभावतः पुनर्वृद्ध्यभावेन पापं कर्म-ज्ञानावरणीयादि येन स तथाविधा, 'दिवा वा रात्रौ वा एको वा परिषद्तो वा सुप्तो वा जाग्रद्वा रात्रौ सुप्तो दिवा जाग्रत्, कारणिक एकः, शेषकालं परिषद्गतः, इदं च वक्ष्यमाणं न कुर्यात् । 'से पुढविं वा' इत्यादि, तद्यथा-पृथिवीं या भित्ति वा शिलां वा लोष्टं वा, तत्र पृथिवी-लोष्टादिरहिता भित्तिः-नदीतटी शिला-विशाल: पाषाणः लोष्ट:-प्रसिद्धः, तथा सह रजसा-आरण्यपांशुलक्षणेन वर्तत इति सरजस्कस्तं सरजस्कं वा 'कायम् कायमिति देहं तथा सरजस्कं वा वस्त्रं-चोलपट्टकादि 'एकग्रहणे तजातीयग्रहण'मिति पात्रादिपरिग्रहः, एतत् किमित्याह६ हस्तेन वा पादेन वा काष्ठेन वा कलिओन वा-क्षुद्रकाष्ठरूपेण अङ्गुल्या वा शलाकया वा-अयाशलाकादिरू SACRACACASSASSAGAR Jain Education in For Private & Personel Use Only Gorainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy