SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Jain Education Int भोजनं चतुर्विधं, तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतश्च द्रव्यतस्त्वशनादौ क्षेत्रतोऽर्धतृतीयेषु द्वीपस मुद्रेषु कालतो रात्र्यादौ भावतो रागद्वेषाभ्यामिति । खरूपतोऽप्यस्य चातुर्विध्यं तद्यथा - रात्रौ गृह्णाति रात्रौ भुङ्क्ते १ रात्रौ गृह्णाति दिवा भुङ्क्ते २ दिवा गृह्णाति रात्रौ भुङ्क्ते ३ दिवा गृह्णाति दिवा भुङ्क्ते ४ संनिधिपरिभोगे, द्रव्यादिचतुर्भङ्गी पुनरियम- दव्वओ णामेगे राई भुंजइ णो भावओ १ भावओ णामेगे णो दव्वओ २ एगे | दव्वओऽवि भावओऽवि ३ एगे णो दव्वओ णो भावओ ४, तत्थ अणुग्गए सूरिए उग्गओत्ति अत्थमिए वा अणत्थमिओत्ति अरतदृट्ठस्स कारणओत्ति रयणीए वा भुंजमाणस्स दव्वओ राईभोअणं णो भावओ, रयणीए भुंजामि मुच्छियस्स तदसंपत्तीए भावओ णो दव्वओ, एवं चेव संपत्तीए दव्वओऽवि भावओऽवि, चउत्थभंगो उण सुन्नो । एतच्च रात्रिभोजनं प्रथमचरमतीर्थकरतीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थे महाव्रतोपरि पठितं, मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति ॥ समस्तत्रताभ्युपगमख्यापनायाह - 'इच्चेयाई' इत्यादि, 'इत्येतानि' अनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि, किमित्याह - ' आत्महिताय' आत्महितो- मोक्षस्तदर्थम्, अनेनान्यार्थ तत्त्वतो बता १ द्रव्यतो नामैको रात्री भुके नो भावतः १ भावतो नामैको नो द्रव्यतः २ एको द्रव्यतोऽपि भावतोऽपि ३एको नो द्रव्यतो नो भावतः ४ । तत्रानुगते सूर्ये उद्गत इति अस्तमिते वाऽनस्तमित इति अरतद्विष्टस्य कारणतो वा रात्रौ भुजानस्य द्रव्यतो रात्रिभोजनं नो भावतः, रात्रौ भुजे इति मूच्छितस्य तदसंपत्तौ भावतो नो द्रव्यतः, एवमेव संपत्ती द्रव्यतोऽपि भावतोऽपि चतुर्थो भङ्गः पुनः शून्यः. For Private & Personal Use Only ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy