________________
REACH
हामि अप्पाणं वोसिरामि । पंचमे भंते! महव्वए उवट्टिओमि सव्वाओ परिग्गहाओ
वेरमणं ५॥ (सू०७) उक्तं चतुर्थं महाव्रतं, साम्प्रतं पञ्चममाह-'अहावरे इत्यादि, अथापरस्मिन् पश्चमे भदन्त! महाव्रते परिग्रहाद्विरमणं, सर्व भदन्त ! परिग्रहं प्रत्याख्यामीति पूर्ववत् । तद्यथा-अल्पं वेत्याद्यवयवव्याख्यापि पूर्ववदेव,3|| नैव खयं परिग्रहं परिगृह्णामि नैवान्यैः परिग्रहं परिग्राहयामि परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयम्-परिग्रहश्चतुर्विधः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सर्वद्रव्येषु क्षेत्रतो लोके कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् , अन्यद्वेषे परिग्रहोपपत्तेः । द्रव्यादिचतुर्भङ्गी पुनरियम्-दव्वओ नामेगे परिग्गहे णो भावओ१ भावओ णामेगे णो दव्वओ२ एगे दवओवि भावओऽवि ३ एगे णो दवओ णो भावओ८। तत्थ अरत्तदुहस्स धम्मोवगरणं दव्वओ परिग्गहो णो भावओ, मुच्छियस्स तदसंपत्तीए भावओ ण दव्वओ, एवं चेव संपत्तीए दवओऽवि भावओऽवि, चरमभंगो उण सुन्नो॥
. १ द्रव्यतो नामैकः परिग्रहो नो भावतः १ भावतो नामैको नो द्रव्यतः २ एको द्रव्यतोऽपि भावतोऽपि ३ एको नो द्रव्यतो नो भावतः ४ । तत्रारकद्विष्टस्य | माधर्मोपकरणं द्रव्यतः परिग्रहो नो भावतः, मूञ्छितस्य तदसंपत्ती भावतो नो द्रव्यतः, एवमेव संपत्ती द्रव्यतोऽपि भावतोऽपि, चरमभाः पुनः शुन्यः.
ERS
en Education
For Private
Personal Use Only
ainelibrary.org