________________
दशवैका ० हारि-वृत्तिः
॥ १४३ ॥
Jain Education Int
म वाया काणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि तस्स
भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । ( सूत्र ० २ )
उक्त जीवाभिगमः, साम्प्रतं चारित्रधर्मः, तत्रोक्तसंबन्धमेवेदं सूत्रम् — 'इचेसिं' इत्यादि, सर्वे प्राणिनः परमधर्माण इत्यनेन हेतुना 'एतेषां षण्णां जीवनिकायाना' मिति, सुपां सुपो भवन्तीति सप्तम्यर्थे षष्ठी, एतेषु षट्सु जीवनिकायेषु - अनन्तरोदितखरूपेषु नैव 'स्वयम्' आत्मना 'दण्ड' संघट्टन परितापनादिलक्षणं 'समारभेत' प्रवर्तयेत्, तथा नैव 'अन्यैः' प्रेष्यादिभिः 'दण्डम्' उक्तलक्षणं 'समारंभयेत्' कारयेदित्यर्थः, दण्डं समारभमाणानप्यन्यान् प्राणिनो 'न समनुजानीयात्' नानुमोदयेदिति विधायकं भगवद्वचनम् । यतश्चैवमतो 'यावज्जीव' मित्यादि यावद् व्युत्सृजामि, एवमिदं सम्यक् प्रतिपद्येतेत्यैदम्पर्य, पदार्थस्तु - जीवनं जीवा यावज्जीवा यावज्जीवम्-आप्राणोपरमादित्यर्थः किमित्याह - 'त्रिविधं त्रिविधेने' ति तिस्रो विधा- विधानानि कृतादिरूपा अस्येति त्रिविधः, दण्ड इति गम्यते, तं त्रिविधेन करणेन, एतदुपन्यस्यति — मनसा वाचा कायेन, एतेषां स्वरूपं प्रसिद्धमेव, अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह -'न करोमि स्वयं, न कारयाम्यन्यैः कुर्वन्तमप्यन्यं न समनुजानामीति, 'तस्य भदन्त ! प्रतिक्रामामी'ति
१ लिङोकवाद्, तथा च नायपुरुषवचनेनाप्युक्तौ क्षतिः.
For Private & Personal Use Only
४ षड्जीवनिकाध्य० जीवस्वरूपं
॥ १४३ ॥
ainelibrary.org