SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ तस्येत्यधिकृतो दण्डः संबध्यते, संबन्धलक्षणा अवयवलक्षणा वा षष्ठी, योऽसौ त्रिकालविषयो दण्डस्तस्य संबन्धिनमतीतमवयवं प्रतिक्रामामि, न वर्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणात्, प्रत्युत्पन्नस्य संवरणादनागतस्य प्रत्याख्यानादिति, भदन्तेति गुरोरामन्त्रणम्, भदन्त भवान्त भयान्त इति साधारणा श्रुतिः, एतच्च गुरुसाक्षिक्येव व्रतप्रतिपत्तिः साध्वीति ज्ञापनार्थ, प्रतिक्रामामीति भूताद्दण्डान्निवर्तेऽहमित्युक्तं भवति, तस्माच्च निवृत्तिर्यत्तदनुमतेर्विरमणमिति, तथा 'निन्दामि गर्हामी ति, अत्रात्मसाक्षिकी निन्दा परसा|क्षिकी गर्दी-जुगुप्सोच्यते, 'आत्मानम्' अतीतदण्डकारिणमइलाध्यं 'व्युत्सृजामीति विविधार्थो विशेषार्थो वा विशब्दः उच्छब्दो भृशार्थः सृजामीति-त्यजामि, ततश्च विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजा-2 मीति । आह-यद्येवमतीतदण्डप्रतिक्रमणमात्रमस्यैदम्पर्य न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैत-18 देवं, न करोमीत्यादिना तदुभयसिद्धेरिति ॥ पढमे भंते! महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते ! पाणाइवायं पञ्चक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा, नेव सयं पाणे अइवाइज्जा नेवऽन्नेहि पाणे अइवायाविज्जा पाणे अइवायंतेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजा JainEducation For Private Personel Use Only R w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy