________________
दशवैका० हारि-वृत्तिः ॥१४२॥
४ षड्जीव|निकाध्य. जीवस्वरूप
इति 'प्रोच्यते' प्रकर्षणोच्यते सर्वैरेवतीर्थकरगणधरैरिति प्रयोगार्थः॥प्रयोगश्च-विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात् , घटवत् । आह-इदं त्रसकायनिगमनमनभिधाय अस्थाने 'सर्वे प्राणिनः परमधमाण' इत्यनन्तरसूत्रसंबन्धिसूत्राभिधानं किमर्थम् ?, उच्यते, निगमनसूत्रव्यवधानवदर्थान्तरेण व्यवधानख्यापनार्थम्, तथाहि-त्रसकायनिगमनसूत्रावसानो जीवाभिगमः, अत्रान्तरे अजीवाभिगमाधिकारः, तदर्थमभिधाय चारित्रधर्मों वक्तव्यः, तथा च वृद्धव्याख्या-एसो खलु छट्ठो जीवनिकाओ तसकाउत्ति पवुच्चह, एस ते जीवाभिगमो भणिओ, इयाणिं अजीवाभिगमो भण्णइ-अजीवा दुविहा, तंजहा-पुग्गला य नोपोग्गला य, पोग्गला छव्विहा, तंजहा-सुहुमसुहुमा सुहुमा सुहुमबायरा बायरसुहुमा बायरा बायरबायरा । सुहुमसुदुमा परमाणुपोग्गला, सुहमा दुपएसियाओ आढत्तो जाव सुहमपरिणओ अणंतपएसिओ खंधो, सुहु|मबायरा गंधपोग्गला, बायरसुहुमा वाउक्कायसरीरा, बादरा आउक्कायसरीरा उस्सादीणं, बायरबायरा तेउवणस्सइपुढवितससरीराणि । अहवा चउब्विहा पोग्गला, तंजहा-खंधा खंधदेसा खंधपएसा परमाणुपोग्गला,
१ एष खलु षष्ठो जीवनिकायः प्रसकाय इति प्रोच्यते, एष तुभ्यं जीवाभिगमो भणितः, इदानीमजीवाभिगमो भण्यते-अजीवा द्विविधाः, तद्यथा-पुद्गलाश्च नोपुद्गलाच, पुद्गलाः षड्विधाः, तद्यथा-सूक्ष्मसूक्ष्माः सूक्ष्माः सूक्ष्मबादरा बादरसूक्ष्मा बादरा बादरबादराः । सूक्ष्मसूक्ष्माः परमाणुपुद्गलाः, सूक्ष्मा द्विप्रदेशिकादारब्धो यावत्सूक्ष्मपरिणतोऽनन्तप्रदेशिकः स्कन्धः, सूक्ष्मबादरा गन्धपुद्गलाः, बादरसूक्ष्मा वायुकायशरीराणि, बादरा अप्कायशरीराणि अवश्यायादीनां, बादरबादरास्तेजोवनस्पतिपृथ्वीत्रसशरीराणि । अथवा चतुर्विधाः पुद्गलाः, तद्यथा-स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाः ।
॥१४२॥
Jain Education-Stional
For Private & Personel Use Only
R
w w.jainelibrary.org