SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ विज्ञानाभावात्, नैतदेवं, हेतुसंज्ञाया अवगतः, बुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां प्रति तेषामभिक्रमणादिभावात्, न चैवं वल्ल्यादीनामभिक्रमणादि, ओघसंज्ञया प्रवृत्तेरिति कृतं प्रसङ्गेन । अधिकृतत्रसभेदानाह-'जे य' इत्यादि, ये च कीटपतङ्गा इत्यत्र कीटा:-कृमयः, 'एकग्रहणे तज्जातीयग्रहण'मिति द्वीन्द्रियाः शङ्खादयोऽपि गृह्यन्ते, पतङ्गाः-शलभा, अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्त इति, तथा याश्च कुन्थुपिपीलिका इत्यनेन त्रीन्द्रियाः सर्व एव गृह्यन्ते, अत एवाह-सर्वे द्वीन्द्रियाः-कृम्यादयः सर्वे श्रीन्द्रियाःकुन्थ्वादयः, सर्वे चतुरिन्द्रियाः-पतङ्गादयः । आह-ये च कीटपतङ्गा इत्यादावुद्देशव्यत्ययः किमर्थम् ?, उच्यते, 'विचित्रा सूत्रगतिरतन्त्रः क्रम' इति ज्ञापनार्थम् , सर्वे पञ्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयोगवादयः, सर्वे नारका-रत्नप्रभानारकादिभेदभिन्नाः, सर्वे मनुजाः-कर्मभूमिजादयः, सर्वे देवा-भवनवास्यादयः, सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एवैते त्रसाः न वेकेन्द्रिया इव प्रसाः स्थावराश्चेति, उक्तं च-"पृथिव्यम्बुवनस्पतयः स्थावराः "तेजोवायू द्वीन्द्रियादयश्च त्रसाः” (तत्त्वा० अ० २ सू०१३-१४) इति । 'सर्वे प्राणिनः परमधर्माण' इति सर्व एते प्राणिनो-दीन्द्रियादयः पृथिव्यादयश्च परमधर्माण इति-अत्र परम-सुखं तद्धर्माणः सुखधर्माणः-सुखाभिलाषिण इत्यर्थः, यतश्चैवमित्यतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव खयं दण्डं समारभेतेति योगः। षष्ठं जीवनिकायं निगमयन्नाह-एष खलु-अनन्तरोदितः कीटादिः 'षष्ठो जीवनिकाय' पृथिव्यादिपश्चकापेक्षया षष्ठत्वमस्य, त्रसकाय Jain Educators For Private & Personel Use Only T ww.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy